SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ घातगतकेवली अयोगी सिद्धो वा स्यात् , स चानाहारकत्वप्रथमसमयेऽप्रदेशः द्वितीयादिषु तु सप्रदेशस्तेन स्यात् सप्रदेश इत्याधुच्यते । पृथक्त्वदण्डके विशेषमाह-'अणाहारगा ण'मित्यादि, जीवानेकेन्द्रियांश्च वर्जयन्तीति जीवैकेन्द्रिहै. यवर्जाः, तान् वर्जयित्वेत्यर्थः, जीवपदे एकेन्द्रियपदे च 'सपएसा य अप्पएसा येत्येवंरूप एक एव भङ्गको, बहूनां | विग्रहगत्यापनानां सप्रदेशानामप्रदेशानां च लाभात् , नारकादीनां द्वीन्द्रियादीनां च स्तोकतराणामुत्पादः, तत्र चैकव्या-18 दीनामनाहारकाणां भावात् षड्भङ्गिकासम्भवः, तत्र द्वौ बहुवचनान्तौ अन्ये तु चत्वार एकवचनबहुवचनसंयोगात्, | केवलैकवचनभङ्गकाविह न स्तः, पृथक्त्वस्याधिकृतत्वादिति । 'सिद्धेहिं तियभंगो'त्ति सप्रदेशपदस्य बहुवचनान्तस्यैव सम्भवात् , 'भवसिद्धी य अभवसिद्धी य जहा ओहिय'त्ति, अयमर्थः-औधिकदण्डकवदेषां प्रत्येकं दण्डकद्वयं, तत्र च भव्योs| भव्यो वा जीवो नियमात्सप्रदेशः, नारकादिस्तु सप्रदेशोऽप्रदेशो वा, बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्ग| वन्तः, एकेन्द्रियाः पुनः सप्रदेशाश्चाप्रदेशाश्चेत्येकभङ्ग एवेति, सिद्धपदं तु न वाच्यं, सिद्धानां भव्याभव्यविशेषणानुपपत्तेरिति । तथा 'नोभवसिद्धियनोअभवसिद्धिय'त्ति एतद्विशेषणं जीवादिदण्डकद्वयमध्येयं, तत्र चाभिलापः-'नोभवसिद्धीएनोअभवसिद्धिए णं भंते ! जीवे सप्पएसे अप्पएसे ?' इत्यादि, एवं पृथक्त्वदण्डकोऽपि, केवलमिह जीवपदं सिद्धपदं | चेति द्वयमेव, नारकादिपदानां नोभव्यनोअभव्यविशेषणस्यानुपपत्तेरिति, इह च पृथक्त्वदण्डके पूर्वोक्तं भङ्गकत्रयमनुसर्त्तव्यमत एवाह-'जीवसिद्धोहिं तियभंगों'त्ति । सञ्जिषु यो दण्डको तयोर्द्वितीयदण्डके जीवादिपदेषु भङ्गत्रयं भवतीत्यत आह-सण्णीहि'इत्यादि, तत्र सचिनो जीवाः कालतः सप्रदेशा भवन्ति चिरोत्पन्नानपेक्ष्य उत्पादविरहानन्तरं चैक ROSSA RISPOSRSRSRSR Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy