________________
एवामेव गोयमा ! समणाणं निग्गंथाणं अहाबायराई कम्माई जाव महापज्जवसाणा भवंति, से जहानामए केइ पुरिसे तत्तंसि अयकवल्लंसि उदगबिंदू जाव हंता विद्धंसमागच्छइ, एवामेव गोयमा ! समणाणं निग्गंथाणं जाव महापजवसाणा भवंति, से तेणटेणं जे महावेदणे से महानिज्जरे जाव निजराए ॥ (सूत्रं २२९)॥ _ 'से नूणं भंते ! जे महावेयणे इत्यादि, 'महावेदनः' उपसर्गादिसमुद्भूतविशिष्टपीडः 'महानिर्जर' विशिष्टकर्मक्षयः, अनयोश्चान्योऽन्याविनाभूतत्वाविर्भावनाय 'जे महानिजरे'इत्यादि प्रत्यावर्त्तनमित्येकः प्रश्नः, तथा महावेदनस्य चाल्पवेदनस्य च मध्ये स श्रेयान् यः 'प्रशस्तनिर्जराकः' कल्याणानुबन्धनिर्जर इत्येष च द्वितीयः प्रश्ना, प्रश्नता च काकुपाठादवगम्या, हन्तेत्याधुत्तरं, इह च प्रथमप्रश्नस्योत्तरे महोपसर्गकाले भगवान महावीरो ज्ञातं, द्वितीयस्यापि स एवोपसर्गानुपसर्गावस्थायामिति । यो महावेदनः स महानिर्जर इति यदुक्तं तत्र व्यभिचारं शङ्कमान आह-छट्ठी'त्यादि, 'दुधोयतराए'त्ति दुष्करतरधावनप्रक्रियं 'दुवामतराए'त्ति 'दुर्वाम्यतरकं' दुस्त्याज्यतरकलङ्क 'दुप्परिकम्मतराए'त्ति कष्टकर्त्तव्यतेजोजननभङ्गकरणादिप्रक्रियम् , अनेन च विशेषणत्रयेणापि दुर्विशोध्यमित्युक्तं, 'गाढीकयाईति आत्मप्रदेशैः सह गाढबद्धानि सनसूत्रगाढबद्धसूचीकलापवत् 'चिक्कणीकयाईति सूक्ष्मकर्मस्कन्धानां सरसतया परस्परं गाढसम्बन्धकरणतो दुर्भेदीकृतानि तथाविधमृत्पिण्डवत् '(अ)सिढिलीकयाईति निधत्वानि सूत्रबद्धाग्नितप्तलोहशलाकाकलाप|वत् 'खिलीभूतानि' अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुमशक्यानि निकाचितानीत्यर्थः, विशेषणचतुष्टयेनाप्येतेन ||४| दुर्विशोध्यानि भवन्तीत्युक्तं भवति, एवं च 'एवामेवे' त्याद्युपनयवाक्यं सुघटनं स्याद्, यतश्च तानि दुर्विशोध्यानि स्युस्ततः
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org