SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४ अयमर्थः-यो हि यस्मिन् समये यद्वर्णगन्धरसस्पर्शसङ्घातभेदसूक्ष्मत्वबादरत्वादिपरिणामान्तरमापन्नः स तस्मिन् । समये तदपेक्षया कालतोऽप्रदेश उच्यते, तत्र चैकसमयस्थितिरित्यन्ये, परिणामाश्च बहव इति प्रतिपरिणामं कालाप्रदेशसंभवात्तद्बहुत्वमिति ४ ॥ एतदेव भाव्यते-भावतो येऽप्रदेशा एकगुणकालत्वादयो भवन्ति ते कालतो द्विविधा अपि भवन्ति-सप्रदेशा अप्रदेशाश्चेत्यर्थः, तथा भावेन द्विगुणादयोऽप्यनन्तगुणान्ताः, 'एव'मिति द्विविधा अपि भवन्ति, ततश्च एकगुणकालाद् द्विगुणकालादिषु गुणस्थानकेषु मध्ये एकैकस्मिन् गुणस्थानके कालाप्रदेशानामेकैको राशिर्भवति, ततश्चानन्तत्वाद् गुणस्थानकराशीनामनन्ता एव कालाप्रदेशराशयो भवन्ति ॥५-६॥ अथ प्रेरकः-एवमिति-यदि प्रतिगुणस्थानकं कालाप्रदेशराशयोऽभिधीयन्त इति, अत्रोत्तरम्-, अयमभिप्रायः-यद्यप्यनन्तगुणकालत्वादीनामनन्ता राशयस्तथाऽप्येकगुणकालत्वादीनामनन्तभाग एव ते वर्तन्त इति न तद्वारेण कालाप्रदेशानामनन्तगुणत्वं अपि त्वसङ्ख्यातगुणत्वमेवेति ॥७-८॥एवं तावत् 'भाव' वर्णादिपरिणामम् ‘इम' उक्तरूपमेकाधनन्तगुणस्थानवर्तिनमित्यर्थःप्रतीत्य कालाप्रदेशिकाः पुद्गलाः सिद्धाः, कालाप्रदेशता वा पुद्गलानां 'सिद्धा' प्रतिष्ठिता, 'द्रव्येऽपि' द्रव्यपरिणाममप्यङ्गीकृत्य परमाण्वादिषु 'एष एव' भावपरिणामोक्त एव गमः-व्याख्या॥९॥ एवमेव' द्रव्यपरिणामवद् भवति क्षेत्रे' क्षेत्रमधिकृत्य एकप्रदेशावगाढादिषु पुद्गलभेदेषु स्थानान्तरगमनं प्रतीत्य कालेन कालाप्रदेशानां मार्गणा॥१०॥यथा क्षेत्रतः एवमवगाहनादितोऽपीत्येतदुच्यतेअवगाहनायाः सङ्कोचं विकोचं च प्रतीत्य कालाप्रदेशाः स्युः, तथा सूक्ष्मवादरस्थिरास्थिरशब्दमनः कर्मादिपरिणामं च प्रतीत्येति ॥११॥ एसिति पुद्गलानामित्यर्थः॥१२-१३-१४-१५॥ अनन्तेभ्यः अनन्तप्रदेशिकस्कन्धेभ्यः प्रदेशार्थतया परमाणवो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy