________________
साधारणलक्षणान्मात्रादि(देः)प्रमातुः पुत्रादिपरिज्ञानं, शेषवत् यत्कार्यादिलिङ्गात्परोक्षार्थज्ञानं यथा मयरोऽत्र केकायितादिति, दृष्टसाधर्म्यवत् यथैकस्य कापणादेर्दर्शनादन्येऽप्येवंविधा एवेति प्रतिपत्तिरित्यादि, औपम्यं यथा गौर्गवयस्तथेत्यादि, आगमस्तु द्विधा-लौकिकलोकोत्तरभेदात् , त्रिधा वा सूत्रार्थोभयभेदात्, अन्यथा वा त्रिधा-आत्मागमानन्तरागमपरम्परागमभेदात् , तत्रात्मागमादयोऽर्थतः क्रमेण जिनगणधरतच्छिष्यापेक्षया द्रष्टव्याः, सूत्रतस्तु गणधरतच्छिष्यप्रशिष्यापेक्षयेति, एतस्य प्रकरणस्य सीमां कुर्वन्नाह-'जावे'त्यादि, 'तेण परं'ति गणधरशिष्याणां सूत्रतोऽनन्तरागमोऽर्थ-18 | तस्तु परम्परागमः ततः परं प्रशिष्याणामित्यर्थः ॥ केवलीतरप्रस्ताव एवेदमपरमाह-केवली 'मित्यादि. चरमकर्म यच्छैलेशीचरमसमयेऽनुभूयते चरमनिर्जरा तु यत्ततोऽनन्तरसमये जीवप्रदेशेभ्यः परिशटतीति । 'पणीय'न्ति प्रणीतं
शुभतया प्रकृष्टं 'धारेज'त्ति धारयेद्व्यापारयेदित्यर्थः। एवं अणंतरे'त्यादि, अस्यायमर्थः-यथा वैमानिका द्विविधा उक्ताः, |मायिमिथ्यादृष्टीनां च ज्ञाननिषेधः, एवममायिसम्यग्दृष्टयोऽनन्तरोपपन्नपरम्परोपपन्नकभेदेन द्विधा वाच्याः, अनन्तरोपप-ली नकानां च ज्ञाननिषेधः, तथा परम्परोपपन्नका अपि पर्याप्तकापर्याप्तकभेदेन द्विधा वाच्याः, अपर्याप्तकानां च ज्ञाननिषेधः, तथा पर्याप्तका उपयुक्तानुपयुक्तभेदेन द्विधा वाच्याः, अनुपयुक्तानां च ज्ञाननिषेधश्चेति । वाचनान्तरे त्विदं सूत्रं साक्षादेवोपलभ्यते, 'आलावं वत्ति सकृजल्पं 'संलावं वत्ति मुहुर्मुहुर्जल्पं मानसिकमेवेति 'लद्धाओ'त्ति तदवधेविषय-3 |भावं गताः 'पत्ताओ'त्ति तदवधिना सामान्यतः प्राप्ताः परिच्छिन्ना इत्यर्थः 'अभिसमन्नागयाओ'त्ति विशेषतः परि-1 |च्छिन्नाः, यतस्तेषामवधिज्ञानं संभिन्नलोकनाडीविषयं, यच्च लोकनाडीग्राहकं तन्मनोवर्गणाग्राहकं भवत्येव, यतो योऽपि
Jan Educaner
For Personal & Private Use Only
aniww.janelibrary.org