________________
|| ५ शतके | उद्देशः२ | ओदनादी| मग्निशरी
रता
व्याख्या
॥सुरायां दे द्रव्ये स्यातां-घनद्रव्यं द्रवद्रव्यं च, तत्र यद् घनद्रव्यं 'पुव्वभावपन्नवणं पडुच'त्ति अतीतपर्यायप्ररूपणामङ्गीप्रज्ञप्तिः
कृत्य वनस्पतिशरीराणि, पूर्व हि ओदनादयो वनस्पतयः, 'तओ पच्छ'त्ति वनस्पतिजीवशरीरवाच्यत्वानन्तरमग्निजीवशअभयदेवी या वृत्तिः
शरीराणीति वक्तव्यं स्यादिति सम्बन्धः, किम्भूतानि सन्ति ? इत्याह-'सत्थातीय'त्ति शस्त्रेण-उदूखलमुशलयन्त्रकादिना
करणभूतेनातीतानि-अतिक्रान्तानि पूर्वपर्यायमिति शस्त्रातीतानि सत्थपरिणामिय'त्ति शस्त्रेण परिणामितानि-कृतानि(त) ॥२१॥ नवपर्यायाणि शस्त्रपरिणामितानि, ततश्च 'अगणिज्झामिय'त्ति वह्निना ध्यामितानि-श्यामीकृतानि स्वकीयवर्णत्याज
नात्, तथा 'अगणिज्झूसिय'त्ति अग्निना शोषितानि पूर्वस्वभावक्षपणात्, अग्निना सेवितानि वा 'जुषी प्रीतिसेवनयो' इत्यस्य धातोःप्रयोगात् , अगणिपरिणामियाईति संजाताग्निपरिणामानि उष्णयोगादिति, अथवा 'सत्थातीता'इत्यादा | शस्त्रमग्निरेव, 'अगणिज्झामिया' इत्यादि तु तद्व्याख्यानमेवेति, उवले'त्ति इह दग्धपाषाणः 'कसहिय'त्ति क(पप)ट्टः 'अद्विज्झामि'त्ति अस्थि च तद्ध्यामंच-अग्निना ध्यामलीकृतम्-आपादितपर्यायान्तरमित्यर्थः, इंगाले'इत्यादि, अङ्गारः' नि-लितेन्धनं 'छारिए'त्ति 'क्षारक' भस्म 'भुसे'त्ति बुसं 'गोमय'त्ति छगणम् , इह च बुसगोमयौ भूतपर्यायानुवृत्त्या दग्धावस्थौ |ग्राह्यौ अन्यथाऽग्निध्यामितादिवक्ष्यमाणविशेषणानामनुपपत्तिः स्यादिति । एते पूर्वभावप्रज्ञापनां प्रतीत्यैकेन्द्रियजीवैः | शरीरतया प्रयोगेण-स्वव्यापारेण परिणामिता येते तथा एकेन्द्रियशरीराणीत्यर्थः, अपिः' समुच्चये, यावत्करणाद् द्वीन्द्रियजीवशरीरप्रयोगपरिणामिता अपीत्यादि दृश्य,द्वीन्द्रियादिजीवशरीरपरिणतत्वं च यथासम्भवमेव न तु सर्वपदेष्विति, तत्र पूर्वमङ्गारो भस्म चैकेन्द्रियादिशरीररूपं भवति, एकेन्द्रियादिशरीराणामिन्धनत्वात् , बुसं तु यवगोधूमहरितावस्थायामे
SASARAN
॥२१३॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org