SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१९६॥ | 'ग्रहापसव्यानि ' ग्रहाणामपसव्यगमनानि प्रतीपगमनानीत्यर्थः, अभ्रात्मका वृक्षा अभ्रवृक्षाः 'गन्धर्वनगराणि' आकाशे | व्यन्तरकृतानि नगराकारप्रतिबिम्बानि, 'उल्कापाताः' सरेखाः सोद्योता वा तारकस्येव पाताः 'दिग्दाहाः' अन्यत|मस्यां दिशि अधोऽन्धकारा उपरि च प्रकाशात्मका दह्यमानमहानगरप्रकाशकल्पाः 'जूवय'त्ति शुक्लपक्षे प्रतिपदादिदिनत्रयं | यावद्यैः सन्ध्याछेदा आत्रियन्ते ते यूपकाः 'जक्खालित्तय'त्ति 'यक्षोद्दीप्तानि' आकाशे व्यन्तरकृतज्वलनानि, धूमिकामहिकयोर्वर्णकृतो विशेषः, तत्र धूमिका - धूम्रवर्णा धूसरा इत्यर्थः, महिका त्वापाण्डुरेति, 'रउग्धाय'त्ति दिशां रजस्वलत्वानि 'चंदोवरागा सूरोवरागा' चन्द्रसूर्यग्रहणानि 'पडिचंद'त्ति द्वितीयचन्द्राः 'उद्गमच्छत्ति इन्द्रधनुःखण्डानि 'कविहसिय'त्ति अन या विद्युत्सहसा तत् कपिहसितम्, अन्ये त्वाहुः - कपिहसितं नाम यदाकाशे वानरमुखसदृशस्य विकृतमुखस्य हसनम् ' अमोह' ति अमोघा आदित्योदयास्तमययोरादित्यकिरणविकारजनिताः 'आताम्राः 'कृष्णाः | श्यामा वा शकटोद्धिसंस्थिता दण्डा इति, 'पाईणवाय'त्ति पूर्वदिग्वाताः 'पडीणवाय'त्ति प्रतीचीनवाताः, यावत्करणा| दिदं दृश्यम् - दाहिणवायाइ वा उदीणवायाइ वा उडवायाइ वा अहोवायाइ वा तिरियवायाइ वा विदिसीवायाइ वा | वाउब्भामाइ वा वाक्कलियाइ वा वायमंडलियाइ वा उक्कलियावायाइ वा मण्डलियावायाइ वा गुंजावायाइवा झंझावायाइ व'त्ति, इह 'वातोद्रामाः' अनवस्थितवाताः 'वातोत्कलिकाः' समुद्रोत्कलिकावत् 'वातमण्डलिका' वातोल्य: 'उत्कलिका| वाताः' उत्कलिकाभिर्ये वान्ति 'मण्डलिकावाताः' मण्डलिकाभियें वान्ति 'गुञ्जवाताः गुञ्जन्तः सशब्दं ये वान्ति 'झन्झावाताः' अशुभनिष्ठुराः 'संवर्त्तकवाताः' तृणादिसंवर्त्तनस्वभावा इति । अथानन्तरोक्तानां ग्रहदण्डादीनां प्रायिकफलानि Jain Education International For Personal & Private Use Only ३ शतके उद्देशः ७ शक्रस्य सोमोलोकपालाःसू१६५ ॥१९६॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy