SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ कोडाकोडीओ आयामविक्खंभेणं असंखेज्जाओं जोयणकोडाकोडीओ परिक्खेवेणं एत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणावास सय सहस्साइं भवन्तीति अक्खाया, ते णं विमाणा सबरयणामया अच्छा जाव पडिरूवा, तस्स णं सोहम्मकप्पस्स बहुमज्झदेसभाए' इति, 'वीइवइत'त्ति व्यतित्रज्य - व्यतिक्रम्य 'जा सूरिया भविमाणस्स' त्ति सूरिकाभविमानं | राजप्रश्नीयोपाङ्गोक्तस्वरूपं तद्वक्तव्यतेह वाच्या, तत्समानलक्षणत्वादस्येति, कियती सा वाच्या ? इत्याह-'यावदभिषेकः' अभिनवोत्पन्नस्य सोमस्य राज्याभिषेकं यावदिति, सा चेहातिबहुत्वान्न लिखितेति ॥ ' अहे' इति तिर्यगूलोके 'वैमाणियाण पमाणस्स'त्ति वैमानिकानां सौधर्मविमानसत्कप्रासादप्राकारद्वारादीनां प्रमाणस्येह नगर्यामर्द्ध ज्ञातव्यं 'सेसा नत्थि' त्ति सुधर्मादि (काः) सभा इह न सन्ति, उत्पत्तिस्थानेष्वेव तासां भावात्, 'सोमकाइय'त्ति सोमस्य कायो - निकायो येषामस्ति ते सोमकायिकाः- सोमपरिवारभूताः 'सोमदेवयकाइय'त्ति सोमदेवताः -- तत्सामानिकादयस्तासां कायो येषामस्ति ते सोमदेवताकायिकाः सोमसामानिकादिदेवपरिवारभूता इत्यर्थः, 'तारारूव' त्ति तारकरूपाः 'तम्भत्तिय'त्ति तत्र - सोमे भक्तिः - सेवा बहुमानो वा येषां ते तद्भक्तिकाः 'तप्पक्खिय'त्ति 'सोमपाक्षिकाः ' सोमस्य प्रयोजनेषु सहायाः 'तम्भारिय'त्ति 'तद्भार्याः ' तस्य सोमस्य भार्या इव भार्या अत्यन्तं वश्यत्वात्पोषणीयत्वाच्चेति तद्भार्याः, तद्भारो वा येषां वोढव्यतयाऽस्ति ते तद्भारिकाः ॥ | 'गहदंड' त्ति दण्डा इव दण्डाः - तिर्यगायताः श्रेणयः ग्रहाणां - मङ्गलादीनां त्रिचतुरादीनां दण्डा ग्रहदण्डाः, एवं ग्रहमुशलादीनि नवरमूर्द्धायताः श्रेणयः, 'गहगज्जिय'त्ति ग्रहसञ्चालादौ गर्जितानि - स्तनितानि ग्रहगर्जितानि 'ग्रहयुद्धानि ग्रहयोरेकत्र नक्षत्रे दक्षिणोत्तरेण समश्रेणितयाऽवस्थानानि' 'ग्रहसिङ्घाटका निग्रहाणां सिङ्घाटक फलाकारेणावस्थानानि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy