________________
तस्य च प्रदेशबन्धकर्मणः सत्कानां पञ्चहस्वाक्षरोच्चारणकालपरिमाणयाऽसङ्ख्यातसमयया गुणश्रेणीरचनया पर्वरचितानां || शैलेश्यवस्थाभाविसमुच्छिन्नक्रियध्यानाग्निना प्रथमसमयादारभ्य यावदन्त्यसमयस्तावत्पतिसमयं क्रमेणासङ्ख्येयगुणवृद्धानां | कर्मपुद्गलानां दहन-दाहः, अनेन च दहनार्थेनेदं पूर्वस्मात्पदाद्भिन्नार्थ पदं भवति, दाहश्चान्यत्रान्यथा रूढोऽपीह मोक्षचिन्ताअधिकारान्मोक्षसाधन उक्तलक्षगकर्मविषय एव ग्राह्य इति। तथा 'नियमाणं मृत मित्येतत्पदमायुःकर्मविषयं, यत आयुष्कपुद्गलानांप्रतिसमयं क्षयोमरणम् , अनेन च मरणार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद्भिन्नार्थ पदं भवति।तथा नियमाणं मृत मित्यनेनायुः कमैवोक्तं, यतः कमैव तिष्ठ जीवतीत्युच्यते, कर्मैव च जीवादपगच्छत् वियत इत्युच्यते, तच्च मरणं सामान्येनोक्तमपि विशिष्टमेवाभ्युपगन्तव्यं, यतः संसारवर्तीनि मरणानि अनेकशोऽनुभूतानि दुःखरूपाणि चेति किं तैः?, इह पुनः पदेऽपुनर्भवमरणमन्त्यं सर्वकर्मक्षयसहचरितमपवर्गहेतु भूतं विवक्षितमिति । तथा 'निर्जीयमाणं निर्जीर्णमित्येतत्पदं सर्वकर्माभाव| विषयं, यतः सर्वकर्मनिर्जरणं न कदाचिदप्यनुभूतपूर्व जीवेनेति, अतोऽनेन सर्वकर्माभावरूपनिर्जरणार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद्भिन्नार्थ पदं भवति । अथैतानि पदानि विशेषतो नानार्थान्यपि सन्ति सामान्यतः कस्य पक्षस्याभिधायकतया प्रवृत्तानीत्यस्यामाशङ्कायामाह-'विगयपक्खस्स'त्ति, विगतं विगमो-वस्तुनोऽवस्थान्तरापेक्षया विनाशः, स एव पक्षो-वस्तुधर्मः, तस्य वा पक्षः-परिग्रहो विगतपक्षस्तस्य विगतपक्षस्य वाचकानीति शेषः, विगतत्वं विहाशेषकाभावोऽभिमतो, जीवेन तस्याप्राप्तपूर्वतयाऽत्यन्तमुपादेयत्वात् , तदर्थत्वाच्च पुरुषप्रयासस्येति, एतानि चैवं विगतार्थानि भव|न्ति, छिद्यमानपदे हि स्थितिखण्डन विगम उक्तः, भिद्यमानपदे त्वनुभावभेदो विगमः, दह्यमानपदे ,त्वकर्मताभवनं
Jain Educa
For Personal & Private Use Only
1
anyone