________________
Jain Education Intel
य उप्पयणकाले एस णं दोपहवि तुल्ले संखेज्जगुणे चमरस्स उ उप्पयणकाले वज्जस्स य ओवयणकाले एसणं दोन्हवि तुल्ले विसेसाहिए ( सू० १४७ )
'भंते !' इत्यादि, 'सीहे 'ति शीघ्रो वेगवान्, स च शीघ्रगमनशक्तिमात्रापेक्षयाऽपि स्यादत आह-'सीहगई चेव' त्ति शिघ्रगतिरेव नाशीघ्रगतिरपि, एवंभूतश्च कायापेक्षयाऽपि स्यादत आह- 'तुरिय'त्ति त्वरितः - त्वरावान्, स च गतेरन्यत्रापि स्यादित्यत आह- 'तुरियगइत्ति 'त्वरितगतिः' मानसौत्सुक्यप्रवर्त्तितवेगवद्गतिरिति, एकार्था वैते शब्दाः 'संचाइए' त्ति शक्तिः 'साहत्थिन्ति स्वहस्तेन । 'गइविसए'त्ति, इह यद्यपि गतिगोचरभूतं क्षेत्रं गतिविषयशब्देनोच्यते तथाऽपि गति - | रेवेह गृह्यते, शीघ्रादिविशेषणानां क्षेत्रेऽयुज्यमानत्वादिति, 'सीहे'त्ति शीघ्रो वेगवान्, स चानैकान्तिकोऽपि स्यादत आह- 'सीहे चेव' त्ति शीघ्र एव एतदेव प्रकर्षवृत्तिप्रतिपादनाय पर्यायान्तरेणाह - त्वरितस्त्वरितश्चैवेति, 'अप्पे अप्पे | चेव'त्ति अतिशयेनाल्पोऽतिस्तोक इत्यर्थः, 'मंदे मंदे चेव' त्ति अत्यन्तमन्दः, एतेन च देवानां गतिस्वरूपमात्रमुक्तम् ॥ | एतस्मिंश्च गतिस्वरूपे सति शक्रवज्रचमराणामेकमाने ऊर्ध्वादौ क्षेत्रे गन्तव्ये यः कालभेदो भवति तं प्रत्येकं दर्शयन्नाह'जावइय' मित्यादि, अथेन्द्रस्योर्ध्वाधः क्षेत्रगमने कालभेदमाह - 'सव्वत्थोवे सकस्से'त्यादि, 'सर्वस्तोकं' स्वल्पं शक्रस्य ऊर्ध्वलोकगमने ख ( क ) ण्डकं - कालखण्डं ऊर्ध्वलोककण्डकं ऊर्ध्वलोक गमनेऽतिशीघ्रत्वात्तस्य, अधोलोकगमने कण्डकं - कालखण्डमधोलोककण्डकं सङ्ख्यातगुणं, ऊर्ध्वलोककण्डकापेक्षया द्विगुणमित्यर्थः, अधोलोकगमने शक्रस्य मन्दगतित्वात्, द्विगुणत्वं च 'सक्कस्स उष्पयणकाले चमरस्स य ओवयणकाले एए णं दोण्णिवि तुल्ला' तथा 'जावतियं खेत्तं चमरे ३ अहे ओवयइ
For Personal & Private Use Only
www.jainelibrary.org