________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः १
॥१५७॥
'नवरं संखेज्जा दीवसमुद्दत्ति लोकपालादीनां सामानिकेभ्योऽल्पतरर्द्धिकत्वेनाल्पतरत्वाद्वैक्रिय करणलब्धेरिति । 'अपुट्ठवागरणं' ति अपृष्टे सति प्रतिपादनं 'वइरोयणिंदे 'त्ति दाक्षिणात्यासुर कुमारेभ्यः सकाशाद्विशिष्टं रोचनं - दीपनं | येषामस्ति ते वैरोचना - औदीच्यासुरास्तेषु मध्ये इन्द्रः - परमेश्वरो वैरोचनेन्द्रः 'साइरेगं केवलकप्पं' ति औदीच्येन्द्रत्वेन बलेर्विशिष्टतरलब्धिकत्वादिति । 'एवं जाव धणियकुमार'त्ति धरणप्रकरणमिव भूतानन्दादिमहाघोषान्तभवनपतीन्द्रप्रकरणान्यध्येयानि तेषु चेन्द्रनामान्येतद्गाथानुसारतो वाच्यानि – “चमरे १ धरणे २ तह वेणुदेव ३ हरिकंत ४ अग्गिसीहे य ५ । पुण्णे ६ जलकंतेवि य ७ अमिय ८ विलंत्रे य ९ घोसे य १० ॥ १ ॥ एते दक्षिणनिकायेन्द्राः, इतरे तु“बेलि १ भूयाणंदे २ वेणुदालि ३ हरिसह ४ ऽग्गिमाणव ५ वसिट्ठे ६ । जलप्पभे ७ अमियवाहणे ८ पभंजण ९ महाघोसे १० ॥ एतेषां च भवनसङ्ख्या "चउतीसा १ चउचत्ता २” इत्यादिपूर्वोक्तगाथाद्वयादवसेया, सामानिकात्मरक्षसङ्ख्या चैत्रम् - "चउसही सही खलु छच्च सहस्सा उ असुरवज्जाणं । सामाणिया उ एए चउग्गुणा आयरक्खा उ ॥ १॥" अग्रमहिव्यस्तु प्रत्येकं धरणादीनां षटू, सूत्राभिलापस्तु धरणसूत्रवत्कार्यः, 'वाणमंतरजोइसियावित्ति व्यन्तरेन्द्रा अपि | धरणेन्द्रवत्सपरिवारा वाच्याः, एतेषु च प्रतिनिकायं दक्षिणोत्तरभेदेन द्वौ द्वौ इन्द्रौ स्यातां, तद्यथा – “काले य महा
१-चमरो धरणस्तथा वेणुदेवो हरिकान्तोऽग्निसिंहश्च । पूर्णो जलकान्तोऽपि चामितो विलम्बश्च घोषश्च ॥ १ ॥ २-बलिर्भूतानन्दो | वेणुदारी हरिषहोऽग्निमानवो वसिष्ठो जलप्रभोऽमितवाहनः प्रभञ्जनो महाघोषः ॥ ३- चतुःषष्टिश्च षष्टिरेव षट् सहस्राणि असुरवर्ज्यानाम् । एतावन्तः सामानिका आत्मरक्षाश्चतुर्गुणाः ॥ ४-- कालश्च महा
Jain Education International
For Personal & Private Use Only
३ शतके उद्देशः १ देववैक्रिय
करणशक्तौ
अग्निभूतिवायुभूतिप्र
श्नः सू१२९
॥ १५७ ॥
www.jainelibrary.org