SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१४०॥ 'अतुरियं' ति कायिकत्वरारहितम् 'अचवलं'ति मानसचापल्यरहितम् 'असंभंते 'त्ति असंभ्रान्तज्ञानः 'घरसमुदा|णस्स' गृहेषु समुदानं-भैक्षं गृहसमुदानं तस्मै गृहसमुदानाय ' भिक्खायरियाए 'ति भिक्षासमाचारेण 'जुगंतरपलोयणाए 'ति युगं - यूपस्तत्प्रमाणमन्तरं - स्वदेहस्य दृष्टिपातदेशस्य च व्यवधानं प्रलोकयति या सा युगान्तरप्रलोकना तया दृष्ट्या 'रियं'ति ईर्या गमनम् ॥ 'से कह मेयं मण्णे एवं 'ति अथ कथमेतत् स्थविरवचनं मन्ये इति वितर्कार्थो निपातः 'एवम्' अमुना प्रकारेणेति बहुजनवचनं 'पभू णं' ति 'प्रभवः' समर्थास्ते 'समिया णं'ति सम्यगिति प्रशंसार्थो निपातस्तेन सम्यक् ते व्याक | वर्त्तन्ते अविपर्यासास्त इत्यर्थः समञ्चन्तीति वा सम्यञ्चः समिता वा सम्यक्प्रवृत्तयः श्रमिता वा - अभ्यासवन्तः 'आउ| जिय'त्ति 'आयोगिकाः' उपयोगवन्तो ज्ञानिन इत्यर्थः जानन्तीति भावः 'पलिउज्जिय'त्ति परि-समन्ताद् योगिकाः | परिज्ञानिन इत्यर्थः परिजानन्तीति भावः ॥ अनन्तरं श्रमणपर्युपासनासंविधानकमुक्तम्, अथ सा यत्फला तद्दर्शनार्थमाह तहारूवं भंते ! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवासणा ?, गोयमा ! सवणफला, से णं भंते ! सवणे किंफले ?, णाणफले, से णं भंते ! नाणे किंफले ?, विष्णाणफले, से णं भंते ! विन्नाणे किंफले ?, पञ्चक्खाणफले, से णं भंते ! पचक्खाणे किंफले १, संजमफले, से णं भंते! संजमे किंफले ?, अण| व्हयफले, एवं अणण्हये तवफले, तवे वोदाणफले, बोदाणे अकिरियाफले, से णं भंते ! अकिरियां किं Jain Education International For Personal & Private Use Only २ शतके उद्देशः ५ स्थविरसामर्थ्य गौत मप्रश्नः सू १११ ॥१४०॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy