________________
शीलमस्येति श्रव्याक्षरसंनिवादी, स चैवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च 'समणस्स भगवओ महावीरस्स अदूरसामंते विहरती' ति योगः' तत्र दूरं च-विप्रकृष्ट सामन्तं च-संनिकृष्टं तन्निषेधाददूरसामन्तं तत्र,नातिदूरे नातिनिकट इत्यर्थः, किंविधः संस्तत्र विहरतीत्याह-'उडेजाणु'त्ति, ऊर्द्ध जानुनी यस्यासावूर्द्धजानुः | शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभावाच्चोत्कुटुकासन इत्यर्थः, 'अहोसिरे'त्ति अधोमुखः नोभे तिर्यग्वा विक्षिप्तदृष्टिः, किन्तु नियतभूभागनियमितदृष्टिरिति भावः, 'झाणकोहोवगए'त्ति, ध्यान-धर्म्य शुक्लं वा तदेव कोष्ठःकुशूलो ध्यानकोष्ठस्तमुपगतः-तत्र प्रविष्टो ध्यानकोष्ठोपगतः, यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रसृतं भवति एवं स | भगवान् ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरिति, 'संजमेणं'ति संवरेण 'तवसत्ति अनशनादिना, चशब्दः समुच्च| यार्थों लुप्तोऽत्र द्रष्टव्यः, संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थ, प्रधानत्वं च संयमस्य नवकर्मानुपादानहे | | तुत्वेन तपसश्च पुराणकर्मनिर्जरणहेतुत्वेन, भवति चाभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच्च सकलकर्मक्षयलक्षणो मोक्ष ||2| इति, 'अप्पाणं भावेमाणे विहरईत्ति, आत्मानं वासयंस्तिष्ठतीत्यर्थः ।। | लए णं से भगवं गोयमे जायसड्ढे जायसंसए जायकोउहल्ले उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकोउहल्ले संजात यसढे संजायसंसए संजायकोउहल्ले समुप्पन्नसड्ढे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उट्ठाए उठेइ उठाए उठेत्ता
जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २त्ता वंदइ नमसइ २त्ता णचासन्ने णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं|
व्या०३ Jain Education
For Personal & Private Use Only
llainelibrary.org