SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ 'एगजीवेणं भंते'इत्यादि, मनुष्याणां तिरश्चां च बीजं द्वादश मुहूर्तान यावद्योनिभूतं भवति, ततश्च गवादीनां शतपृथक्त्वस्यापि बीजं गवादियोनिप्रविष्टं बीजमेव, तत्र च बीजसमुदाये एको जीव उत्पद्यते, स च तेषां बीजस्वामिनां | सर्वेषां पुत्रो भवतीत्यत उक्तम्-'उक्कोसेणं सयपुहुत्तस्से त्यादि । 'सयसहस्सपुहुतंति मत्स्यादीनामेकसंयोगेऽपि शतसहस्रपृथक्त्वं गर्भे उत्पद्यते निष्पद्यते चेत्येकस्यैकभवग्रहणे लक्षपृथक्त्वं पुत्राणां भवतीति, मनुष्ययोनौ पुनरुत्पन्ना अपि बहवो न निष्पद्यन्त इति । 'इत्थीए पुरिसस्स य' इत्येतस्य 'मेहुणवत्तिए नामं संयोगे समुप्पज्जति' इत्यनेन सम्बन्धः, कस्यामसौ उत्पद्यते ? इत्याह-कम्मकडाए जोणीए'त्ति नामकर्मनिवर्त्तितायां योनौ, अथवा कर्म-मदनोद्दीपको व्यापारस्तत् कृतं यस्यां साकर्मकृताऽतस्तस्यां मैथुनस्य वृत्तिः-प्रवृत्तिर्यस्मिन्नसौ मैथुनवृत्तिको मैथुनं वा प्रत्ययो-हेतुर्यस्मिन्नसौ स्वार्थिकेकप्रत्यये मैथुनप्रत्ययिकः'नाम ति नाम नामवतोरभेदोपचारादेतन्नामेत्यर्थः 'संयोगः' संपर्कः, 'ते' इति स्त्रीपुरुषो 'दुह ओ'त्ति उभयतः 'लेहरेतःशोणितलक्षणं 'संचिनुतः' सम्बन्धयतः इति ॥ 'मेहुणवत्तिए नामसंजोए'त्ति प्रागुक्तम्, | अथ मैथुनस्यैवासंयमहेतुताप्ररूपणसूत्रम्-'रूयनालियं वत्ति रूतं-कप्पासविकारस्तभृता नालिका-शुषिरवंशादिरूपा | रूतनालिका ताम्, एवं बूरनालिकामपि, नवरं बूरं-वनस्पतिविशेषावयवविशेषः, 'समभिद्धंसेज'त्ति रूतादिसमभिध्वंसनात्, इह चायं वाक्यशेषो दृश्यः-एवं मैथुनं सेवमानो योनिगतसत्त्वान् मेहनेनाभिध्वंसयेत्, एते च किल ग्रन्थान्तरे पञ्चेन्द्रियाः श्रूयन्त इति, 'एरिसए ण'मित्यादि च निगमनमिति ॥ पूर्व तिर्यमनुष्योत्पत्तिर्विचारिता, अथ देवो त्पत्तिविचारणायाः प्रस्तावनायेदमाह KC064-CAR-MS-400054 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy