SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ निर्मासास्थिसम्बन्ध्युपवेशनादिक्रियासमुत्थः शब्दविशेषस्तां भूतः - प्राप्तो यः स किटिकिटिकाभूतः 'कृशः ' दुर्बल: 'धमनी - सन्ततो' नाडीव्याप्तो मांसक्षयेण दृश्यमाननाडीकत्वात्, 'जीवंजीवेणं' ति अनुस्वारस्यागमिकत्वात् 'जीवजीवेन' जीवब|| लेन गच्छति न शरीरबलेनेत्यर्थः ' भासं भासित्ते' त्यादौ कालत्रयनिर्देशः 'गिलाइ 'त्ति ग्लायति ग्लानो भवति । ' से जहा | नाम 'त्ति 'से'त्ति यथार्थः यथेति दृष्टान्तार्थः नामेति सम्भावनायाम् 'इति' वाक्यालङ्कारे 'कट्टसगडिय'त्ति काष्ठभृता | शकटिका काष्ठशकटिका 'पत्तसगडिय'त्ति पलाशादिपत्रभृता गन्त्री 'पत्ततिलभंडगसगडिय'त्ति पत्रयुक्ततिलानां | भाण्डकानां च-मृन्मयभाजनानां भृता गन्त्रीत्यर्थः 'तिल कङगसगडिय'त्ति क्वचित्पाठः प्रतीतार्थः 'एरण्डकट्सगडिय' | त्ति एरण्डकाष्ठमयी एरण्डकाष्ठभृता वा शकटिका, एरण्डकाष्ठग्रहणं च तेषामसारत्वेन तच्छकटिकायाः शुष्कायाः सत्या | अतिशयेन गमनादौ सशब्दत्वं स्यादिति, 'अङ्गारशकटिका' अङ्गारभृता गन्त्री 'उन्हे दिण्णा सुक्का समाणी'ति विशे| वणद्वयं काष्ठादीनामार्द्राणामेव संभवतीति यथासम्भवमायोज्यमिति हुताशन इव भस्मराशिप्रतिच्छन्नः 'तवेणं तेए| 'ति तपोलक्षणेन तेजसा, अयमभिप्रायः - यथा भस्मच्छन्नोऽग्निर्बहिर्वृत्त्या तेजोरहितोऽन्तर्वृत्त्या तु ज्वलति, एवं स्कन्द| कोऽपि अपचितमांसशोणितत्वाद्वहिर्निस्तेजा अन्तस्तु शुभध्यानतपसा ज्वलतीति ॥ उक्तमेवार्थमाह ते काले २ रायगिहे नगरे जाव समोसरणं जाव परिसा पडिंगया, तए णं तस्स खंदयस्स अण० अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अन्भत्थिए चिंतिए जाव समुप्पज्जित्था एवं खलु अहं इमेणं एयारूवेणं ओरालेणं जाव किसे धमणिसंतए जाते जीवंजीवेणं ग Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy