________________
त्यपरिमाणपूरणात्, 'किइ'त्ति कीर्चयति पारणकदिने इदं चेदं चैतस्याः कृत्यं तच्च मया कृतमित्येवं कीर्तनात् 'अणुपालेइ'त्ति तत्समाप्तौ तदनुमोदनात्, किमुक्तं भवति ? इत्याह-आज्ञयाऽऽराधयतीति एवमेताः सप्त सप्तमासान्ताः, ततोऽष्टमी प्रथमा सप्तरात्रिन्दिवा-सप्ताहोरात्रमानाः एवं नवमी दशमी चेति, एतास्तिस्रोऽपि चतुर्थभक्तनापानकेनेति, | उत्तानकादिस्थानकृतस्तु विशेषः, 'राइंदिय'त्ति रात्रिन्दिवा, एकादशी अहोरात्रपरिमाणा, इयं च षष्ठभक्केन, 'एगरा
इय'त्ति एकरात्रिकी, इयं चाष्टमेन भवतीति । 'गुणरयणसंवच्छ ति गुणानां -निर्जराविशेषाणां रचनं करणं संवत्स| रेण-सत्रिभागवर्षेण यस्मिंस्तपसि तद् गुणरचनसंवत्सरं, गुणा एव वा रत्नानि यत्र स तथा गुणरत्नः संवत्सरो यत्र तद्णरत्नसंवत्सरं-तपः, इह च त्रयोदश मासाः सप्तदशदिनाधिकास्तपःकालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं पायम्-"पण्णरसवीसचउबीस चेव चउवीस पण्णवीसा य । चउवीस एकवीसा चउवीसा सत्तवीसा य॥१॥तीसा तेत्तीसाविय चउबीस छवीस अठवीसा य । तीसा बत्तीसावि य सोलसमासेसु तवदिवसा ॥२॥ पण्णरसदसहछप्पंचचउर पंचसु य तिण्णि तिण्णित्ति । पंचसु दो दो य तहा सोलसमासेसु पारणगा ॥३॥"
AAKAARAKS
१-पञ्चदश विंशतिश्चतुर्विंशतिश्चैव चतुर्विशतिः पञ्चविंशतिश्च । चतुर्विंशतिरेकविंशतिश्चतुर्विशतिः सप्तविंशतिश्च ॥ १ ॥ त्रिंशत्रयत्रिंशदपि च चतुर्विंशतिः षड्विंशतिरष्टविंशतिश्च । त्रिंशद्वात्रिंशदपि च षोडशमासेषु तपोदिवसाः॥२॥ पञ्चदश दशाष्ट षट् पञ्च चत्वारः त्रयस्त्रयश्च पञ्चसु । पञ्चसु द्वौ द्वौ च तथा पोडशमासेषु पारणकदिवसाः॥३॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org