SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ संस्थानं तेन संस्थितो-व्यवस्थितो यः स तथा, अयं च हीनसंहननोऽपि स्यादित्यत आह-'वजरिसहनारायसंघयणे त्ति, इह संहननम्-अस्थिसञ्चयविशेषः, इह वज्रादीनां लक्षणमिदम्-"रिसहो य होइ पट्टों वजं पुण कीलियं वियाणाहि । उभओ मक्कडबंधो नारायं तं वियाणाहि ॥१॥" त्ति, तत्र वनं च तत् कीलिकाकीलितकाष्ठसंपुटोपमसामर्थ्ययुक्तत्वात् ऋषभश्च लोहादिमयपट्टबद्धकाष्ठसंपुटोपमसामर्थ्यान्वितत्वाद् वज्रर्षभः स चासौ नाराचंच उभयतो मर्कटबन्धनिबद्धकाष्ठसंपुटोपमसामोपेतत्वाद् वज्रर्षभनाराचं(तच्च)तत् संहननम्-अस्थिसञ्चयविशेषोऽनुपमसामर्थ्ययोगाद्यस्यासौ वर्षभनाराचसंहननः, अम्ये तु कीलिकादिमत्त्वमस्नामेव वर्णयन्ति, अयं च निन्द्यवर्णोऽपि स्यादित्यत आह-'कणयपुलयनिहसपम्हगोरे' कनकस्य-सुवर्णस्य 'पुलगंति यः पुलको-लवस्तस्य यो निकषा-कषपट्टके रेखालक्षणः, तथा 'पम्ह'त्तिपद्मपक्ष्माणि-केशराणि तद्वद्गौरो यः स तथा, वृद्धव्याख्या तु-कनकस्य न लोहादेः पुलका-सारो वर्णातिशयस्तत्प्रधानो, | यो निकषो-रेखा तस्य यत्पक्ष्म-बहलत्वं तद्वद्गौरों यः स तथा, अथवा-कनकस्य यःपुलको द्रुतत्वे सति बिन्दुस्तस्य | निकषो-वर्णतः सदृशो यः स तथा, 'पम्ह'त्ति पनं तस्य चेह प्रस्तावारकेशराणि गृह्यन्ते ततः पद्मवद्गौरो यः स तथा, ततः पदद्वयस्य कर्मधारयः, अयं च विशिष्टचरणरहितोऽपि स्थादित्यत आह-'उग्गतवेत्ति उग्रम्-अप्रधृष्यं तपः| अनशनादि यस्य स उग्रतपाः, यदन्येन प्राकृतपुंसा न शक्यते चिन्तयितुमपि तद्विधेन तपसा युक्त इत्यर्थः, 'दिततवे' त्ति, दीप्तं-जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतयाज्वलितं तपोधर्मध्यानादि यस्य स तथा, 'तत्ततवेत्ति १ ऋषभो भवति पट्टो वत्रं पुनः कीलिकां विजानीहि । उभयतो मर्कटबन्धस्तु नाराचं विजानीहि ॥ १ ॥ jalt Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy