SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ पृथिवी सिद्धिरुक्ता, 'किंचिविसेसाहिए परिक्खेवेणं'ति किञ्चिन्यूनगव्यूतद्वयाधिके द्वे योजनशते एकोनपञ्चाशदुत्तरे भवत इति। 'वलयमरणे'त्ति वलतो-बुभुक्षापरिगतत्वेन वलवलायमानस्य-संयमाद्वाभ्रस्यतो (यत्)मरणं तद्वलन्मरणं, तथा वशेन-इन्द्रियवशेन ऋतस्य-पीडितस्य दीपकलिकारूपाक्षिप्तचक्षुषः शलभस्येव यन्मरणं तद् वशालैमरणं, तथाऽन्तःशल्यस्य द्रव्यतोऽनुद्धृततोमरादेः भावतः सातिचारस्य यन्मरणं तदन्तःशल्यमरणं, तथा तस्मै भवाय मनुष्यादेः सतो मनुज्यादावेव बद्धायुषो यन्मरणं तत्तद्भवमरणम् , इदं च नरतिरश्चामेवेति, 'सत्थोवाडणे'त्ति शस्त्रेण-क्षुरिकादिना अव| पाटनं-विदारणं देहस्य यस्मिन् मरणे तच्छस्त्रावपाटनं, 'वेहाणसे'त्ति विहायसि-आकाशे भवं वृक्षशाखाद्यद्वन्धनेन यत्तन्निरुक्तिवशाद्वैहानसं, 'गिद्धपढे'त्ति गृधैः-पक्षिविशेषगृद्धवा-मांसलुब्धैः शृगालादिभिः स्पृष्टस्य-विदारितस्य करि|करभरासभादिशरीरान्तर्गतत्वेन यन्मरणं तद्धस्पृष्टं वा गृद्धस्पृष्टं वा गृधैर्वा भक्षितस्य-स्पृष्टस्य यत्तद्ध्रस्पृष्टम् । 'दुवालसविहेणं बालमरणेणं'ति उपलक्षणत्वादस्यान्येनापि बालमरणान्तःपातिना मरणेन म्रियमाण इति 'वडइ वड्डइत्ति संसारवर्द्धनेन भृशं वर्द्धते जीवः, इदं हि द्विर्वचनं भृशार्थे इति। पाओवगमणे'त्ति पादपस्येवोपगमनम्-अस्पन्दतयाऽवस्थानं पादपोपगमनम् , इदं च चतुर्विधाहारपरिहारनिष्पन्नमेव भवतीति । नीहारिमेय'त्ति निर्हारेण निवृत्तं यत्तन्निारिमं प्रतिश्रये यो म्रियते तस्यैतत् , तत्कडेवरस्य निर्हारणात्, अनिर्हारिमं तु योऽटव्यां म्रियते इति । यच्चान्यत्रेह स्थाने इङ्गितमरणमभिधीयते तद्भक्तप्रत्याख्यानस्यैव विशेष इति नेह भेदेन दर्शितमिति । ___एत्थ णं से खंदए कच्चायणस्स गोत्ते संबुद्धे समणं भगवं महावीरं वंदइ नमसइ २ एवं वदासी-इच्छामि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy