________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥ ६५ ॥
| तथाभावं वेदयति वा न वा, यथा मिथ्यात्वं तत्क्षयोपशमकालेऽनुभागकर्मतया न वेदयति प्रदेशकर्मतया तु वेदयत्ये| वेति । इह च द्विविधेऽपि कर्म्मणि वेदयितव्ये प्रकारद्वयमस्ति तच्चार्हतैव ज्ञायते इति दर्शयन्नाह - 'ज्ञातं ' सामान्येनाव| गतम् 'एतद्' वक्ष्यमाणं वेदनाप्रकारद्वयम् 'अर्हता' जिनेन 'सुयं' ति ' स्मृतं' प्रतिपादितम् अनुचिन्तितं वा, तत्र स्मृत| मिव स्मृतं केवलित्वेन स्मरणाभावेऽपि जिनस्यात्यन्तमव्यभिचारसाधर्म्यादिति, 'विष्णायं' ति विविधप्रकारैः - देशकाला| दिविभागरूपैर्ज्ञातं विज्ञातं, तदेवाह - 'इमं कम्मं अयं जीवे त्ति, अनेन द्वयोरपि प्रत्यक्षतामाह केवलित्वादर्हतः, 'अज्झो| वगमियाए 'ति प्राकृतत्वादभ्युपगमः - प्रब्रज्याप्रतिपत्तितो ब्रह्मचर्यभूमिशयन केशलुञ्चनादीनामङ्गीकारस्तेन निर्वृत्ता आभ्यु| पगमिकी तथा 'वेयइस्सइ 'त्ति भविष्यत्कालनिर्देशः भविष्यत्पदार्थो विशिष्टज्ञानवतामेव ज्ञेयः अतीतो वर्त्तमानश्च पुनरनुभवद्वारेणान्यस्यापि ज्ञेयः संभवतीति ज्ञापनार्थः, 'उवक्कमियाए'त्ति उपक्रम्यतेऽनेनेत्युपक्रमः - कर्मवेदनोपायस्तत्र भवा औ| पक्रमिकी - स्वयमुदीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य कर्मणोऽनुभवस्तया औपक्रमिक्या वेदनया वेदयिष्यति, तथा च 'अहाकम्मै' ति यथाकर्म - बद्धकर्मानतिक्रमेण 'अहानिगरणं'ति निकरणानां - नियतानां देशकालादीनां करणानां विपरिणाम हेतूनामनतिक्रमेण यथा यथा तत्कर्म भगवता दृष्टं तथा तथा विपरिणंस्यतीति, इतिशब्दो वाक्यार्थसमाप्ताविति ॥ | अनन्तरं कर्म्म चिन्तितं तच्च पुद्गलात्मकमिति परमाण्वादिपुद्गलांश्चिन्तयन्नाह - अथवा परिणामाधिकारात्पुद्गल परिणाममाहएस णं भंते! पोगले तीतमणतं सासयं समयं भुवीति वक्तव्वं सिया ?, हंता गोयमा ! एस णं पोग्गले | अतीतमनंतं सासयं समयं भुवीति वक्तव्वं सिया । एस णं भंते ! पोग्गले पडुप्पन्नसासयं समयं भवतीति
Jain Educatiotional
For Personal & Private Use Only
१ शतक
उद्देश ४ कर्मवेदन
भेद
सू ४०
।। ६५ ।।
jainelibrary.org