SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ वोऽभाव एव स्याद्' इति व्याख्यातं तत्रापि प्रयोगेणापि तथा विस्रसयाऽपि अभावोऽभाव एव स्यात् न प्रयोगादेः साफल्यमिति व्याख्येयमिति ॥ अथोक्तहेत्वोरुभयत्र समतां भगवदभिमततां च दर्शयन्नाह| 'जहा ते'इत्यादि, 'यथा प्रयोगविश्रसाभ्यामित्यर्थः 'ते'इति तव मतेन अथवा सामान्येनास्तित्वनास्तित्वपरिणामः प्रयोगविश्रसाजन्य उक्तः, सामान्यश्च विधिः क्वचिदतिशयवति वस्तुन्यन्यथाऽपि स्याद् अतिशयवांश्च भगवानिति तमाश्रित्य परिणामान्यथात्वमाशङ्कमान आह-'जहा ते'इत्यादि, 'ते'इति तव सम्बन्धि अस्तित्वं, शेष | तथैवेति ॥ अथोक्तस्वरूपस्यैवार्थस्य सत्यत्वेन प्रज्ञापनीयतां दर्शयितुमाह-'से णूण'मित्यादि, अस्तित्वम|स्तित्वे गमनीयं सद्वस्तु सत्त्वेनैव प्रज्ञापनीयमित्यर्थः, 'दो आलावग'त्ति से णूणं भंते ! अत्थितं अत्थित्ते गमणिज'मित्यादि 'पओगसावि तं वीससावि तं' इत्येतदन्त एकः, परिणामभेदाभिधानात्, 'जहा ते भंते ! अस्थित्तं अत्थित्ते गमणिज'मित्यादि 'तहा मे अत्थित्तं अत्थित्ते गमणिज' मित्येतदन्तस्तु द्वितीयोऽस्तित्वनास्तित्वपरिणामयोः समताऽभिधायीति ॥ एवं वस्तुप्रज्ञापनाविषयां समभावतां भगवतोऽभिधायाथ शिष्यविषयां तां दर्शयन्नाह जहा ते भंते ! एत्थ गमणिज्जं तहा ते इह गमणिजं, जहा ते इहं गमणिज्जं तहा ते एत्थं गमणिकं ?, हंता ! गोयमा !, जहा ! मे एत्थं गमणिज्जं जाव तहा मे एत्थं (इहं) गमणिज्जं ॥ (सू० ३३) & 'जहा ते इत्यादि 'यथा' स्वकीयपरकीयताऽनपेक्षतया समत्वेन विहितमितिप्रवृत्त्या उपकारबुद्ध्या वा 'ते' तव भद jain Educatio VIL For Personal & Private Use Only Womainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy