________________
आवश्यकहारिभद्रीया
प्रत्याख्या नाध्य० श्रावकत्रतभङ्गाः
॥८०६॥
णः सप्तमः, इह च सम्पूर्णासम्पूर्णोत्तरगुणभेदमनादृत्य सामान्येनैक एव भेदो विवक्षितः, 'अविरयओ चेव अट्ठमओ'त्ति अवि- रतश्चैवाष्टम इति अविरतसम्यग्दृष्टिरिति गाथार्थः॥ १५५९ ॥ इत्थमेते अष्टौ भेदाः प्रदर्शिताः, एत एव विभज्यमाना द्वात्रिंशद् भवन्ति, कथमित्यत आह-'पणग'त्ति पञ्चाणुव्रतानि समुदितान्येव गृह्णाति कश्चित् , तत्रोक्तलक्षणाः षड् भेदा | भवन्ति, 'चउक्कं च'त्ति तथाऽणुव्रतचतुष्टयं गृह्णात्यपरस्तत्रापि पडेव, 'तिगन्ति एवमणुव्रतत्रयं गृह्णात्यन्यस्तत्रापि षडेव,
'दुगं च'त्ति इत्थमणुव्रतद्वयं गृह्णाति, तत्रापि षडेव, 'एक वत्ति तथाऽन्य एकमेवाणुव्रतं गृह्णाति, तत्रापि षडेव, 'गिण्हइ ४ वयाईति इत्थमनेकधा गृह्णाति व्रतानि, विचित्रत्वात् श्रावकधर्मस्य, एवमेते पञ्च षट्कास्त्रिंशद् भवन्ति, प्रतिपन्नोत्तर
गुणेन सहैकत्रिंशत् , तथा चाह-'अहवावि (य) उत्तरगुणे'त्ति अथवोत्तरगुणान्-गुणव्रतादिलक्षणान् गृह्णाति, समुदितान्येव गृह्णाति, केवलसम्यग्दर्शनिना सह द्वात्रिंशद् भवन्ति, तथा चाह-'अहवावि न गिण्हती किंचित्ति अथवा न गृह्णाति तानप्युत्तरगुणानिति, केवलं सम्यगदृष्टिरेवेति गाथार्थः ॥ १५६० ॥ इह पुनर्मूलगुणोत्तरगुणानामाधारः सम्यक्त्वं वर्तते तथा चाह-निस्संकियनिकंखिय'गाहा, शङ्कादिस्वरूपमुदाहरणद्वारेणोपरिष्टाद् वक्ष्यामः 'वीरवचने' महावीरंवर्द्धमानस्वामिप्रवचने 'एते' अनन्तरोक्ता द्वात्रिंशदुपासकाः-श्रावका भणिताः-उक्ता इति गाथार्थः ॥ १५६१ ॥ एते चेव बत्तीसतिविहा करणतियजोगतियकालतिएणं विसेसेजमाणासीयालं समणोवासगसयं भवति, कहं ?, पाणाइवायं न करेति मणेणं, अथवा पाणातिपातं न करेइ वायाए, अहवा पाणातिपातंन करेइ काएणं ३, अथवा पाणातिवातं न करेति मणेणं वायाए य, अथवा पाणातिवायं न करेति मणेणं काएण य, अथवा पाणातिपातं न करेति वायाए काएणय ६, अथवा पाणातिपातं न करेति
HAGARAASHRSHA%A9%CE
॥८०६॥
Join Education
a
l
For Personal & Private Use Only
nelibrary.org