________________
न्त्यकृतजिनप्रणीतधर्मेण किलशब्दः परोक्षाप्तागमवादसंसूचकः दुःखानि शारीरमानसानि संसारे-तिर्यग्नरनारकामरभवानुभवलक्षणे यानि मयाऽनुभूतानि ततः-तेभ्यो दुर्विषहतराण्यग्रतोऽप्यकृतपुण्यानां नरकेषु-सीमन्तकादिषु अनुपमानि-उपमारहितानि दुःखानि, दुर्विषहत्वमेतेषां शेषगतिसमुत्थदुःखापेक्षयेति गाथार्थः॥ १५५३ ॥ यतश्चैवं 'तम्हा' गाथा, तस्मात् तु निर्ममेन-ममत्वरहितेन मुनिना-साधुना, किंभूतेन ?-उपलब्धसूत्रसारण-विज्ञातसूत्रपरमार्थेनेत्यर्थः, किं ?-कायोत्सर्गः-उक्तस्वरूपः उग्रः-शुभाध्यवसायप्रबलः कर्मक्षयार्थ नतु स्वर्गादिनिमित्तं कर्तव्य इति गाथार्थः॥१५५४॥ उक्तोऽनुगमः, नयाः पूर्ववत् ॥ शिष्यहितायां कायोत्सर्गाध्ययनं समाप्तम् ।
कायोत्सर्गविवरणं कृत्वा यदवाप्तमिह मया पुण्यम् । तेन खलु सर्वसत्त्वाः पञ्चविधं कायमुज्झन्तु ॥१॥
കുകയായമായ Bl॥ इत्याचार्यश्रीहरिभद्रकृतायां शिष्यहिताख्यायामावश्यकवृत्तौ कायोत्सर्गाध्ययन समाप्तं ॥ | ಸಾಹಾಹಾಹಾಹಾಹಾರವನಹನಲಾಲನರಹಣೆ
AKASCARRORAA%CA%AR
QD
Jain Education HARI
For Personal & Private Use Only
nelibrary.org