________________
आवश्यकहारिभद्रीया
॥७८८ ॥
श्रुतधर्मस्य प्रोच्यते - ' तमतिमिरपडलविद्धंसणस्स सुरगणे त्यादि, तमः - अज्ञानं तदेव तिमिरं अथवा तमः - बद्धस्पृष्टनि धत्तं ज्ञानावरणीयं निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद् विध्वंसयति नाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य, तथा चाज्ञाननिरासेनैवास्य प्रवृत्तिः, तथा सुरगणनरेन्द्रमहितस्य, तथा चागममहिमानं कुर्वन्त्येव सुरादयः, तथा सीमां - मर्यादां धारयतीति सीमाधरः, सीम्नि वा धारयतीति तस्येति, तृतीयार्थे षष्ठी, तं वन्दे, तस्य वा यत् माहात्म्यं तद् वन्दे, अथवा तस्य वन्द इति वन्दनं करोमि, तथाहि - आगमवन्त एव मर्यादां धारयन्ति, किंभूतस्य ? - प्रकर्षेण स्फोटितं मोहजालं - मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन् सति विवेकिनो मोहजालं विलयमुपयात्येव, इत्थं श्रुतधर्ममभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेण प्रमादागोचरतां प्रतिपादयन्नाह - 'जाईजरामर - णेत्यादि, जातिः - उत्पत्तिः जरा-वयोहानिः मरणं - प्राणत्यागः शोकः - मानसो दुःखविशेषः, जातिश्च जरा च मरणं च शोकश्चेति द्वन्द्वः, जातिजरामरणशोकान् प्रणाशयति- अपनयति जातिजरामरणशोकप्रणाशनस्तस्य, तथा च श्रुतधर्मोकानुठानाज्जात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघातित्वमाह, कल्यम् - आरोग्यं कल्यमणतीति कल्याणं, कल्यं शब्दयतीत्यर्थः, पुष्कलं - सम्पूर्ण न च तदल्पं किं तु विशालं विस्तीर्ण सुखं प्रतीतं कल्याणं पुष्कलं विशालं सुखमावहति — | प्रापयतीति कल्याणपुष्कलविशाल सुखावहस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य | विशिष्टार्थप्रसाधकत्वमाह, कःप्राणी देवदानवनरेन्द्रगणार्चितस्य श्रुतधर्मस्य सारं - सामर्थ्यमुपलभ्य दृष्ट्वा विज्ञाय कुर्यात् प्रमादं सचेतनः ? चारित्रधर्मे प्रमादः कर्त्तुं न युक्त इति हृदयम्, आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्चि
Jain Education international
For Personal & Private Use Only
५कायोत्सगांध्य० प्रतिक्रमणविधः
॥७८८ ॥
www.jainelibrary.org