________________
तथैवातिचाराः सूक्ष्मवादरा भवन्ति न केवलात् वीर्यादिति देह एव च भवति नादेहस्य, तत्र वही रोमश्चादय आदिशब्दादुत्कम्पग्रहः 'अन्तो खेलानिलादीया' अन्तः - मध्ये श्लेष्मानिलादयो विचरन्तीत्यर्थः, इति गाथार्थः ॥ १५१३॥ अधुना 'सूक्ष्मैर्दृष्टिसञ्चारै' रिति सूत्रावयवं व्याख्यानयति — अवलोकनमा लोकस्तस्मिन्नवलोके चलं अवलोकचलं दर्शनलालसमित्यर्थः, किं १ - चक्षुः - नयनं, यतश्चैवमतो मनोवद्-अन्तःकरणमिव तच्चक्षुर्दुष्करं स्थिरं कर्तुं न शक्यत इत्यर्थः, यतो रूपैस्तदाक्षिप्यते स्वभावतो वा-स्वभावेन वा नैसर्गिकेण स्वयं चलति, आत्मनैव चलतीति गाथार्थः ॥ १५१४॥ यस्मादेवं तस्मात् न करोति निमेष ( रोध) यलं कायोत्सर्गकारी, किमिति ?, - 'तत्थुवओगे ण झाण झाएजत्ति तत्र निर्निमेषयले य उपयोगस्तेन सता मा न ध्यानं ध्यायेत् अभिप्रेतमिति, 'एगनिसं तु पवन्नो झायइ साहू अणिमिसच्छोऽवि' एकरात्रिकीं तु प्रतिमां प्रतिपन्नो महासत्त्वो ध्यायति समर्थः अनिमेषाक्षोऽपि - अनिमिषे अक्षिणी यस्य सः अनिमिषाक्षः निश्चलनयन इति गाथार्थः ॥ १५१५ ॥ अधुना एवमादिभिराकारैरित्यादिसूत्रावयवव्याचिख्यासयाह - ' अगणि'त्ति यदा ज्योतिः स्पृशति तदा प्रावर णाय कल्पग्रहणं कुर्वतो न कायोत्सर्गभङ्गः, आह-नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति ? येन तद्भङ्गो न भवति, उच्यते, नात्र नमस्कारपारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किं तु यो यत्परिमाणो यत्र कायोत्सर्ग उक्तस्तत ऊर्ध्व परिसमाप्तेऽपि तस्मिन्नमस्कारमपठतो भङ्ग इत्यादि, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, स चात्र न भवतीति, एवं सर्वत्र भावनीयं, 'छिंदिज्ज व'त्ति मार्जारीमूषकादिभिर्वा पुरतो यायात्, अत्राप्यग्रतः सरतो न कायो सर्गभङ्गः, 'बोहियखोभाइ' त्ति बोधिकाः - स्तेनकास्तेभ्यः क्षोभः- संभ्रमः, आदिशब्दाद्राजादिक्षोभः परिगृह्यते, तत्रास्थानेऽप्युच्चारयतो ( ऽनुच्चारयतो) वा न
Jain Educational
For Personal & Private Use Only
jainelibrary.org