SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया प्रत्याख्या नाध्य श्रावकत्रताधि० ॥८३५॥ त्पत्तौ तत्र स्वयं गमनायोगात् वृत्तिप्राकारप्रत्यासन्नवर्तिनोबुद्धिपूर्वकं क्षुत्कासितादिशब्दकरणेन समवासितकान् बोधयतः शब्दस्यानुपातनम्-उच्चारणं तादृग् येन परकीयश्रवणविवरमनुपतत्यसाविति, तथा रूपानुपात:-अभिगृहीतदेशाद् बहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनार्थं स्वशरीररूपदर्शनं रूपानुपातः, तथा बहिः पुद्गलप्रक्षेपः अभिगृहीत-2 देशाद् बहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्ट्रवादिक्षेपः पुद्गलप्रक्षेप इति भावना, देशावकाशिकमेतदर्थमभिगृह्यतेमा भूदू बहिर्गमनागमनादिव्यापारजनितः प्राण्युपमई इति, स च स्वयं कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः प्रत्युत गुणः स्वयंगमने ईर्यापथविशुद्धेः परस्य पुनरनिपुणत्वादशुद्धिरिति कृतं प्रसङ्गेन ॥ व्याख्यातं सातिचारं द्वितीयं | शिक्षापदव्रतं, अधुना तृतीयमुच्यते, तत्रेदं सूत्रम् पोसहोववासे चउविहे पन्नत्ते, तंजहा-आहारपोसहे सरीरसकारपोसहे बंभचेरपोसहे अव्वावारपोसहे, पोसहोववासस्स समणो० इमे पश्च०, तंजहा-अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारए अपमज्जियदुप्पमजियसिज्जासंथारए अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमीओ अप्पमजियदुप्पमजियउच्चारपासवणभूमीओ पोसहोववासस्स सम्मं अणणुपाल(ण)या ॥११॥ (सूत्रं) । इह पौषधशब्दो रूढ्या पर्वसु वर्त्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वादित्यर्थः, पौषधे उपवसनं पौषधोपवासः नियमविशेषाभिधानं चेदं पोषधोपवास इति, अयं च पोषधोपवासश्चतुर्विधः प्रज्ञप्तः, तद्यथा-'आहारपोषध' आहारःप्रतीतः तद्विषयस्तन्निमित्तं पोषध आहारपोषधः, आहारनिमित्तं धर्मपूरणं पर्वेति भावना, एवं शरीरसत्कार ॥८३५॥ Jain Educationalonal For Personal & Private Use Only Indainelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy