________________
आवश्यकहारिभद्रीया
॥८२६॥
Jain Education
रेतणाणि सावगस्स विक्किणियाणि तेण परिग्गहपरिमाणाइरित्ताइतिकाउं न गहियाणि, सावगेण णेच्छितं, सो पूइतो । | इदं चातिचाररहितमनुपालनीयं, तथा चाह-' इच्छा परिमाणस्स समणोवासएणं०' इच्छापरिमाणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथेति पूर्ववत्, क्षेत्रवास्तुप्रमाणातिक्रमः तत्र शस्योत्पत्तिभूमिः क्षेत्रं, तच्च सेतुकेतुभेदाद् द्विभेदं तत्र सेतुक्षेत्रं अरघट्टादिसेक्यं, केतुक्षेत्रं पुनराकाशपतितोदकनिष्पाद्यं, वास्तु-अगारं तदपि त्रिविधं खातमुत्सृतं खातोच्छ्रितं च तत्र खातं - भूमिगृहकादि उच्छ्रतं प्रासादादि, खातोच्छ्रितं-भूमिगृहस्योपरि प्रासादः, एतेषां क्षेत्रवास्तूनां प्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतप्रमाणोल्लङ्घनमित्यर्थः । तथा हिरण्यसुवर्णप्रमाणातिक्रमस्तत्र हिरण्यं - रजतमघटितं घटितं वा अनेकप्रकारं द्रम्मादिः, सुवर्ण प्रतीतमेव तदपि घटिताघटितं एतद्ग्रहणाचेन्द्रनीलमरकताद्युपलग्रहः, अक्षरगमनिका पूर्ववदेव, तथा धनधान्यप्रमाणातिक्रमः, तत्र धनं - गुडशर्करादि, गोमहिष्यजाविकाकरभतुरगाद्यन्ये, धान्यं - त्रीहिकोद्रवमुद्गमापतिलगोधूमयवादि, अक्षरगमनिका प्राग्वदेव, तथा द्विपदचतुष्पदप्रमाणातिक्रमः, तत्र द्विपदादीनि - दासीमयूरहंसादीनि चतुष्पदानि - हस्त्यश्वमहिष्यादीनि, अक्षरगमनिका पूर्ववदेव, तथा कुप्यप्रमाणातिक्रमः, तत्र कुप्यं- आसनशयन भण्डककरोटकलोहाद्युपस्करजातमुच्यते, एतद्ग्रहणाच्च वस्त्रकम्बलपरिग्रहः, अक्षरगमनिका पूर्ववदेव, तान् क्षेत्रवास्तुप्रमाणातिक्रमादीन् समाचरन्नतिचरति पञ्चमाणुव्रतमिति । एत्थ य दोसा जीवघातादि | भणितवा । उक्तं सातिचारं पञ्चमाणुव्रतम् इत्युक्तान्यणुत्रतानि, साम्प्रतमेतेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि १ रत्नानि श्रावकाय विक्रेतुं नीतानि तेन परिग्रहप्रमाणातिरिक्तानीतिकृत्वा न गृहीतानि श्रावकेण नेष्टं, स पूजितः, २ अत्र च दोषा जीवघातादयो भणितव्याः
1
For Personal & Private Use Only
६प्रत्याख्या नाध्य०
श्रावकत्र
ताधि०
॥८२६॥
inelibrary.org