________________
स्त्वितरः, तत्र स्थूल एव स्थूलकः २ श्चासौ मृषावादश्चेति समासः, तं श्रमणोपासकः प्रत्याख्यातीति पूर्ववत् , स च मषावादः पञ्चविधः प्रज्ञप्तः-पञ्चप्रकारःप्ररूपितस्तीर्थकरगणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः, कन्याविषयमनृतं अभिन्नकन्यकामेव भिन्नकन्यकां वक्ति विपर्ययोवा, एवं गवानृतं अल्पक्षीरामेव गां बहुक्षीरां वक्ति विपर्ययो वा, एवं भूम्यनृतं परसत्कामेवात्म| सत्कां वक्ति, व्यवहारे वा नियुक्तोऽनाभवद्व्यवहारस्यैव कस्यचिद् भागाद्यभिभूतो वक्ति-अस्येयमाभवतीति, न्यस्यते-निक्षिप्यत इति न्यासः-रूप्यकाद्यर्पणं तस्यापहरणं न्यासापहारः, अदत्तादानरूपत्वादस्य कथं मृषावादत्वमिति ?, उच्यते, अपलपतो मृषावाद इति, कूटसाक्षित्वं उत्कोचमात्सर्याद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति, अविधवाद्यनृतस्यात्रैवान्तर्भावो वेदितव्यः । मुसावादे के दोसा ? अकजंते वा के गुणा ?, तत्थ दोसा कण्णगं चेव अकण्णगं भणंते भोगंतरायदोसा पदुट्ठा वा आतघातं करेज कारवेज वा, एवं सेसेसुवि भाणियबा । णासावहारे य पुरोहितोदाहरणम्-सोजधा णमोकारे, गुणे उदाहरणं-कोंकणगसावगोमणुस्सेण भणितो, घोडए णासंते आहणाहित्ति, तेण आहतोमतो य करणं णीतो, पुच्छितोको ते सक्खी?, घोडगसामिएण भणियं, एतस्स पुत्तो मे सक्खी,तेण दारएण भणितं-सच्चमेतन्ति, तुट्ठा पूजितो सो, लोगेण
१ मृषावादे के दोषाः ? अक्रियमाणे वा के गुणाः ?, तत्र दोषाः कन्यकामेवाकन्यका भणति भोगान्तरायदोषाः प्रद्विष्टा वाऽऽत्मघातं कुर्यात्कारयेद्वा, एवं शेषेष्वपि भणितव्याः । न्यासापहारे च पुरोहितोदाहरणं-स यथा नमस्कारे, गुणे उदाहरणं-कोकणकश्रावको मनुष्येण भणितः-घोटकं नश्यन्तं आजहि | इति, तेनाहतो मृतश्च करणं नीतः, पृष्टः- कस्तव साक्षी, घोटकस्वामिकेन भणित-एतस्य पुत्रो मे साक्षी, तेन दारकेण भणित-सत्यमेतदिति, तुष्टाः (सभ्याः) पूजितः सः, लोकेन
Jain Education
a
l
For Personal & Private Use Only
MAlainelibrary.org