________________
आवश्यक हारिभद्रीया
॥७६७॥
Jain Education
कायः तथा भावकायश्चेति गाथासमासार्थः ॥ व्यासार्थं तु प्रतिद्वारमेव व्याख्यास्यामः, तत्र नामकायप्रतिपादनायाह'काओ कस्सवि'त्ति कायः कस्यचित् पदार्थस्य सचेतनाचेतनस्य वा नाम क्रियते स नामकायः, नामाश्रित्य कायो नामकायः, तथा देहोऽपि - शरीरसमुच्छ्रयोऽपि उच्यते कायः, तथा काचमणिरपि कायो भण्यते, प्राकृते तु कायः । तथा बद्धमपि किञ्चिलेखादि 'निकायमासु'त्ति निकाचितमाख्यातवन्तः, प्राकृतशैल्या निकायेति गाथार्थः, गतं नामद्वारं, अधुना स्थापनाद्वारं व्याख्यायते - 'अक्खे वराडए' अक्षे-चन्दनके वराटके वा - कपर्दके वा काष्ठे-कुट्टिमे पुस्ते वा - वस्त्रकृते चित्रकर्मणि वा प्रतीते, किमित्याह -सतो भावः सद्भावः तथ्य इत्यर्थः तमाश्रित्य तथा असतोभावः असद्भावः अतथ्य इत्यर्थः, तं चाश्रित्य किं ? - स्थापनाकायं विजानाहीति गाथार्थ ॥ १४३१ ॥ सामान्येन सद्भावासद्भावस्थापनोदाहरणमाह- 'लेप्पगहत्थी' यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते 'एस सम्भाविया भवे ठेवण'त्ति एषा सद्भावस्थापना भवतीति, भवत्यसद्भावे पुनहस्तीति निराकृतिः - हस्त्या कृतिशून्य एव चतुरङ्गादाविति । तदेवं स्थापनाकायोऽपि भावनीय इति गाथार्थः ॥ १४३२ ॥ शरीरकायप्रतिपादनायाह - 'ओरालियवेडविय' उदारैः पुद्गलैर्निर्वृत्तमौदारिकं विविधा क्रिया विक्रिया तस्यां भवं वैक्रियं प्रयोजनार्थिना आहियत इत्याहारकं तेजोमयं तैजसं, कर्मणा निर्वृत्तं कार्मणं, औदारिकं वैक्रियं आहारकं तैजसं कार्मणं चैत्र एप पञ्चविधः खलु शीर्यन्त इति शरीराणि शरीराण्येव पुद्गलसङ्घातरूपत्वात् कायः शरीरकायः विज्ञातव्य इति गाथार्थः ॥ गतिकायप्रतिपादनायाह'च सुवि गई' इयमप्यन्यकर्तृकी गाथा सोपयोगेति च व्याख्यायते - चतसृष्वपि गतिषु - नारकतिर्यगूनरामरलक्षणासु
For Personal & Private Use Only
५ कायोत्सर्गाध्ययनं कायनिक्षेपः
|||७६७॥
snelibrary.org