SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ व्याख्या - यद्यपि च प्रतिमा यथा मुनीनां गुणा मुनिगुणा-व्रतादयस्तेषु सङ्कल्पः - अध्यवसायः मुनिगुणसङ्कल्पस्तस्य कारण- निमित्तं मुनिगुणसङ्कल्पकारणं 'लिङ्गं' द्रव्यलिङ्गं, तथाऽपि प्रतिमाभिः सह वैधर्म्यमेव, यत उभयमप्यस्ति लिङ्गेसावद्यकर्म निरवद्यकर्म च तत्र निरवद्यकर्मयुक्त एव यो मुनिगुणसङ्कल्पः स सम्यक्सङ्कल्पः, स एव च पुण्यफलः, यः पुनः सावद्यकर्मयुक्तेऽपि मुनिगुणसङ्कल्पः स विपर्याससङ्कल्पः, क्लेशफलश्चासौ, विपर्यासरूपत्वादेव, न च प्रतिमासूभयमस्ति, चेष्टारहितत्वात्, ततश्च तासु जिनगुणविषयस्य क्लेशफलस्य विपर्याससङ्कल्पस्याभावः, सावद्यकर्मरहितत्वात् प्रतिमानाम्, आह-इत्थं तर्हि निरवद्यकर्मरहितत्वात् सम्यक्सङ्कल्पस्यापि पुण्यफलस्याभाव एव प्राप्त इति उच्यते, तस्य तीर्थकर गुणाध्यारोपेण प्रवृत्तेर्नाभाव इति गाथार्थः ॥ ११३५ ॥ तथा चाss - नियमा जिणेसु उ गुणा पडिमाओ दिस्स जे मणे कुणइ । अगुणे उ विधाणतो कं नमउ मणे गुणं काउं ॥ ११३६ ॥ व्याख्या—‘नियमादि’ति नियमेनावश्यंतया 'जिनेष्वेव' तीर्थकरेष्वेव तुशब्दस्यावधारणार्थत्वात्, 'गुणाः' ज्ञानादयः, न प्रतिमासु, प्रतिमा दृष्ट्वा तास्वध्यारोपद्वारेण यान् 'मनसि करोति' चेतसि स्थापयति पुनर्नमस्करोति, अत एवासौ तासु शुभः पुण्यफलो जिनगुणसङ्कल्पः, सावधकर्मरहितत्वात् न चायं तासु निरवद्यकर्माभावमात्राद्विपर्याससङ्कल्पः, सावद्यकर्मोपेतवस्तुविषयत्वात्तस्य, ततश्चोभयविकल एवाऽऽकारमात्रतुल्ये कतिपयगुणान्विते चाध्यारोपोऽपि युक्तियुक्तः, 'अगुणे उ' इत्यादि अगुणानेव तुशब्दस्यावधारणार्थत्वात् अविद्यमानगुणानेव 'विजानन्' अवबुध्यमानः पार्श्वस्थादीन 'कं नमउ मणे गुणं काउं' कं मनसि गुणं कृत्वा नमस्करोतु तानिति?, स्यादेतत्-अन्यसाधुसम्बन्धिनं तेष्वध्यारो
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy