SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ HOSTASIS PERASA यरहितं 'विजानन्' अवबुध्यमानः तथाऽपि तीर्थकरोऽयमित्येवं भावशुद्ध्या 'नमन्' प्रणमन् 'स' प्रणामकर्ता 'प्राप्नोति' आसादयति 'निर्जरां' कर्मक्षयलक्षणां 'विपुलां' विस्तीर्णामिति गाथार्थः ॥११३० ॥ एष दृष्टान्तः, अयमर्थोपनयःलिंगं जिणपण्णत्तं एव नमंतस्स निजरा विउला । जइवि गुणविप्पहीणं वंदइ अज्झप्पसोहीए ॥११३१॥ | | व्याख्या-लिङ्गयते साधुरनेनेति लिङ्ग-रजोहरणादिधरणलक्षणं जिनैः-अर्हद्भिः प्रज्ञप्त-प्रणीतम् ‘एवं' यथा प्रतिमा इति 'नमस्कुर्वतः प्रणमतो निर्जरा विपुला, यद्यपि गुणैः-मूलोत्तरगुणैर्विविधम्-अनेकधा प्रकर्षेण हीनं-रहितं गुणविहीणं, 'वन्दते' नमस्करोति 'अध्यात्मशुद्ध्या' चेतःशुद्धयेति गाथार्थः ॥ ११३१॥ इत्थं चोदकेनोक्ते दृष्टान्तदाान्तिकयोवैषम्यमुपदर्शयन्नाचार्य आहसंता तित्थयरगुणा तित्थयरे तेसिमं तु अज्झप्पं । न य सावजा किरिया इयरेसु धुवा समणुमन्ना ॥११३२ ॥ | व्याख्या-'सन्तः' विद्यमानाः शोभना वा तीर्थकरस्य गुणास्तीर्थकरगुणा-ज्ञानादयः, क?-'तीर्थकरे' अर्हति भगवति इयं च प्रतिमा तस्य भगवतः 'तेसिमं तु अज्झप्पं तेषां-नमस्कुर्वतामिदमध्यात्मम्-इदं चेतः, तथा न च तासु 'सावद्या' सपापा 'क्रिया' चेष्टा प्रतिमासु, 'इतरेषु' पार्श्वस्थादिषु 'ध्रुवा' अवश्यंभाविनी सावद्या क्रिया प्रणमतः, तत्र किमित्यत आह-'समणुमण्णा' समनुज्ञा सावधक्रियायुक्तपार्श्वस्थादिप्रणमनात् सावधक्रियानुमतिरिति हृदयम् , अथवा सन्तस्तीर्थकरगुणाः तीर्थकरे तान् वयं प्रणमामः तेषामिदमध्यात्मम्-इदं चेतः, ततोऽर्हद्गुणाध्यारोपेण चेष्टप्रतिमाप्रणामान्नमस्कर्तुः न च
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy