________________
ROSA ASROR 964A
असंजयं न वंदिजा, मायरं पियरं गुरुं । सेणावई पसत्थारं, रायाणं देवयाणि य ॥ ११०५॥ व्याख्या-न संयता असंयताः, अविरता इत्यर्थः, तान्न वन्देत, कं?-'मातरं' जननी तथा "पितरं' जनकम् , असंयतमिति वर्तते, प्राकृत्यशैल्या चाऽसंयतशब्दो लिङ्गत्रयेऽपि यथायोगमभिसंबध्यते, तथा 'गुरुं पितामहादिलक्षणम् , असंयतत्वं सर्वत्र योजनीयं, तथा हस्त्यश्वरथपदातिलक्षणा सेना तस्याः पतिः सेनापतिः-गणराजेत्यर्थः, तं सेनापति, 'प्रशस्तार' प्रकर्षण शास्ता प्रशास्ता तं-धर्मपाठकादिलक्षणं, तथा बद्धमुकुटो राजाऽभिधीयते तं राजानं, दैवतानि च न वन्देत, देवदेवीसङ्ग्रहार्थ दैवतग्रहणं, चशब्दालेखाचार्यादिग्रहो वेदितव्य इति गाथार्थः ॥ ११०५॥ इदानीं यस्य वन्दनं कर्तव्यं स उच्यते
समणं वंदिज मेहावी, संजयं सुसमाहियं । पंचसमिय तिगुत्तं, अस्संजमदुगुंछगं ॥ ११०६॥ . व्याख्या-श्रमणः-प्राग्निरूपितशब्दार्थः तं श्रमणं 'वन्देत' नमस्कुर्यात् , कः?-'मेधावी' न्यायावस्थितः, स खलु श्रमणः नामस्थापनादिभेदभिन्नोऽपि भवति, अत आह-संयतं' सम्-एकीभावेन यतः संयतः, क्रियां प्रति यत्नवानित्यर्थः, असावपि च व्यवहारनयाभिप्रायतो लब्ध्यादिनिमित्तमसम्पूर्णदर्शनादिरपि संभाव्यते, अत आह-'सुसमाहितं' दर्शनादिषु सुष्ठु-सम्यगाहितः सुसमाहितस्तं, सुसमाहितत्वमेव दर्यते-पञ्चभिरीर्यासमित्यादिभिः समितिभिः समितः पञ्चसमितस्तं, तिसृभिर्मनोगुप्त्यादिभिर्गुप्तिभिर्गुप्तस्तं त्रिगुप्त, प्राणातिपातादिलक्षणोऽसंयमः असंयम गर्हति-जुगुप्सतीत्यसंयमजुगुप्सक स्तम्, अनेन दृढधर्मता तस्यावेदिता भवतीति गाथार्थः ॥११०६ ॥ आह-किमिति यस्य कर्तव्यं वन्दनं स एवादौ
BARSARKARIA
मिर्गसस्त माहितत्वमेव तमसम्पूर्ण सम्एकामा