________________
आवश्यकहारिभद्रीया
२ चतुर्विशतिस्तवा. विशेषणसाफल्यं.
॥५०१॥
व्यभिचारे च विशेषणमर्थवद्भवति, यथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुपादीयमानमपि यथा कृष्णो भ्रमरः शुक्ला बलाका इत्यादिवत्) ऋते प्रयासात् कमर्थ पुष्णातीति?, तस्मात्केवलिन इत्यतिरिच्यते, न, अभिप्रायापरिज्ञानाद्, इह केवलिन एव यथोक्तस्वरूपा अर्हन्तो नान्य इति नियमनार्थत्वेन स्वरूपज्ञानार्थमेवेदं विशेषणमित्यनवद्यं, न चैकान्ततो | व्यभिचारसम्भव एव विशेषणोपादानसाफल्यम् , उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपज्ञापने च शिष्टोक्तिषु तत्प्रयोगदर्शनात् , तत्रोभयपदव्यभिचारे यथा नीलोत्पलमिति, तथैकपदव्यभिचारे यथा आपो द्रव्यं पृथिवी द्रव्यमिति, तथा स्वरूपज्ञापने यथा परमाणुरप्रदेश इत्यादि, यतश्चैवमतः केवलिन इति न दुष्टम् । आह-यद्येवं केवलिन इत्येतदेव सुन्दरं, शेषं तु लोकस्योद्योतकरानित्यादिकमनर्थकमिति, अत्रोच्यते, इह श्रुतकेवलिप्रभृतयोऽन्येऽपि विद्यन्त एव केवलिनः, तस्मान्मा भूत्तेषु सम्प्रत्यय इति तत्प्रतिक्षेपार्थं लोकस्योद्योतकरानित्याद्यपि वाच्यमिति । एवं व्यादिसंयोगापेक्षयाऽपि विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यम् , इत्यलं विस्तरेण, गमनिकामात्रमेतदिति । तत्र यदुक्तं | 'कीर्तयिष्यामीति' तत्कीर्तनं कुर्वन्नाहउसभमजिअं च वंदे संभवमभिणंदणं च सुमई च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुप्फदंतं सीअल सिज्जंस वासुपुजं च । विमलमणंतं च जिणं धम्म संतिं च वंदामि ॥३॥ कुंथु अरं च माल्लिं वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्टनेमि पासं तह वद्धमाणं च ॥ ४॥ (सूत्राणि) एतास्त्रिस्रोऽपि सूत्रगाथा इति, आसां व्याख्या-इहाहतां नामानि अन्वर्थमधिकृत्य सामान्यलक्षणतो विशेषलक्षणतश्च
5
॥५०॥