SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ GLOSAOXORUSSIA तिस्तया, उक्तं च-"भाषासमिति म हितमितासन्दिग्धार्थभाषणं" एषणा गवेषणादिभेदा शङ्कादिलक्षणा वा तस्यां समितिरेषणासमितिस्तया, उक्तं च-"एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्य'मिति, आदानभाण्डमात्रनिक्षेपणा समितिः, भाण्डमात्रे आदाननिक्षेपविषया समितिःसुन्दरचेष्टेत्यर्थः, तया, इह च सप्त भड़ा | भवन्ति-पत्ताइ न पडिलेहइ ण पमज्जइ, चउभंगो, तत्थ चउत्थे चत्तारि गमा-दुप्पडिलेहियं दुप्पमजियं चउभंगो, आइल्ला छ अप्पसत्था, चरिमो पसत्थो, उच्चारप्रश्रवणखेलसिंघाणजल्लानां परिस्थापनिका तद्विषया समितिः सुन्दरचेष्टेत्यर्थः, तया, उच्चारः-पुरीषं, प्रश्रवणं-मूत्रं, खेल:-श्लेष्मा, सिवानं-नासिकोद्भवः श्लेष्मा, जल्लः-मलः, अत्रापि त एव | सप्त भङ्गा इति, इह च उदाहरणानि, ईरियासमिईए उदाहरणं ऐगो साहू ईरियासमिईए जुत्तो, सक्करस आसणं चलियं, सक्केण देवमज्झे पसंसिओ मिच्छादिठ्ठी देवो असद्दहतो आगओ मच्छियप्पमाणाओ मंडुक्कलियाओ विउवइ पच्छओ य हत्थी, गई ण भिंदइ, हत्थिणा उक्खिविय पाडिओ, न सरीरं पेहइ, सत्ता मे मारियजीवदयापरिणओ। अहवा ईरियासमिईए अरहण्णओ, देवयाए पाओ छिण्णो, अण्णाए १ पात्रादि न प्रतिलिखति न प्रमार्जयति, चतुर्भशिका, तत्र चतुर्थे चत्वारो गमाः-दुष्पतिलेखितं दुष्प्रमार्जितं चतुर्भङ्गी, आद्याः षटू अप्रशस्ताः, चरमः प्रशस्तः,२ एकः साधुरीर्यासमित्या युक्तः, शक्रस्यासनं चलितं, शक्रेण देवमध्ये प्रशंसितः, मिथ्यादृष्टिदेवोऽश्रद्दधान आगतो मक्षिकाप्रमाणा मण्डूकिका विकुर्वति पृष्ठतश्च हस्ती, गतिं न भिनत्ति, हस्तिनोक्षिप्य पातितः, न शरीराय स्पृहयति, सत्त्वा मया मारिता इति जीवदयापरिणतः ॥ अथवेर्यासमितावरहनका, देवतया पादश्छिन्नः, अन्यया
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy