SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ दिधर्मः 'स्त्री'ति स्त्रीविषयः, केषाञ्चिन्मातुलदुहिता गम्या केषाञ्चिदगम्येत्यादि, तथा 'कुलिङ्गो वा' कुतीर्थिकधर्मो वा द्रव्यधर्म इति गाथार्थः ॥१०६३ ॥ दुह होइ भावधम्मो सुअचरणे आ सुअंमि सज्झाओ। चरणमि समणधम्मो खंतीमाई भवे दसहा ॥१०६४॥ ___ व्याख्या-द्वेधा भवति भावधर्मः, 'सुअचरणे यत्ति श्रुतविषयश्चरणविषयश्च, एतदुक्तं भवति-श्रुतधर्मश्चारित्रधर्मश्च, 'सुअंमि सज्झाओ'त्ति श्रुत इति द्वारपरामर्शः, स्वाध्यायो-वाचनादिः श्रुतधर्म इत्यर्थः, 'चरणमि समणधम्मो खंतीमाई भवे दसहत्ति तत्र चरण इति परामर्शः, श्रमणधर्मो दशविधः क्षान्त्यादिश्चरणधर्म इति गाथार्थः॥१०६४ ॥ उक्को धर्मः, साम्प्रतं तीर्थनिरूपणायाहनाम ठवणातित्थं व्वत्तित्थं च भावतित्थं च । एककपि अ इत्तोऽणेगविहं होइ णायव्वं ॥१०६५॥ व्याख्या-निगदसिद्धा ॥ नवरं द्रव्यतीर्थ व्याचिख्यासुरिदमाहदाहोवसमं तण्हाइछेअणं मलपवाहणं चेव । तिहि अत्थेहि निउत्तं तम्हा तं व्वओ तित्थं ॥ १०६६ ॥ व्याख्या-इह द्रव्यतीर्थ मागधवरदामादि परिगृह्यते, बाह्यदाहादेरेव तत उपशमसद्भावात् , तथा चाह-दाहोपशममिति तत्र दाहो-बाह्यसन्तापस्तस्योपशमो यस्मिन् तद्दाहोपशमनं, 'तण्हाइछेअण'ति तृषः-पिपासायाश्छेदनं, जलसङ्घातेन तदपनयनात्, 'मलप्रवाहणं चैवे'त्यत्र मलः बाह्य एवाङ्गसमुत्थोऽभिगृह्यते तत्प्रवाहणं, जलेनैव तत्प्रवाहणात् , ततः प्रक्षालनादिति भावः, एवं त्रिभिरथैः करणभूतैत्रिषु वाऽर्थेषु 'नियुक्तं' निश्चयेन युक्तं नियुक्तं प्रथमव्युत्पत्तिपक्षे प्ररूपितं
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy