________________
न्यस्तहस्तशिरःस्थापनारूपाः, निष्क्रम्य पुनः प्रविष्टस्याप्येत एव षडिति, एतच्चापान्तरालद्वारद्वयमाद्यद्वारोपलक्षितमवगन्तव्यं, गतं कत्यवनतद्वारं, साम्प्रतं 'कतिशिर' इत्येतद्वारं व्याचिख्यासुरिदमपरं गाथाशकलमाह
चउसिरं तिगुत्तं च दुपवेसं एगनिक्खमणं ॥ १२०२॥ ___ व्याख्या-चत्वारि शिरांसि यसिँमस्तच्चतुःशिरः, प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशिरोद्वयं, पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना, द्वारं । तिस्रो गुप्तयो यस्मिंस्तत्रिगुप्तं, मनसा सम्यक्प्रणिहितः वाचाऽस्खलिताक्षराण्युच्चारयन् । कायेनावर्तान विराधयन् वन्दनं करोति यतः, चशब्दोऽवधारणार्थः, द्वौ प्रवेशौ यस्मिंस्तविप्रवेशं, प्रथमोऽनुज्ञाप्य प्रविशतः, द्वितीयः पुनर्निर्गतस्य प्रविशत इति, एकनिष्क्रमणमावश्यक्या निर्गच्छतः, एतच्चापान्तरालद्वारत्रयं कतिशिरोद्वारेणैवोपलक्षितमवगन्तव्यमिति गाथार्थः ॥ १२०२ ॥ साम्प्रतं कतिभिर्वाऽऽवश्यकैः परिशुद्धमिति द्वारार्थोऽभिधी-18 यते, तथा चाऽऽह| अवणामा दुन्नऽहाजायं, आवत्ता बारसेव उ। सीसा चत्तारि गुत्तीओ, तिनि दो य पवेसणा ॥१२०३ ॥ | एगनिक्खमणं चेव, पणवीसं वियाहिया । आवस्सगेहिं परिसुद्धं, किइकम्म जेहि कीरई ॥ १२०४ ॥ __ व्याख्या-गाथाद्वयं निगदसिद्धमेव, एभिर्गाथाद्वयोक्तैः पञ्चविंशतिभिरावश्यकैः परिशुद्धं कृतिकर्म कर्तव्यम् , अन्यथा द्रव्यकृतिकर्म भवति ॥ १२०३-१२०४ ॥ आह च
* निर्गत्य.