SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्री| यवृत्तिः विभागा ॥२७७॥ व्याख्या-'द'त्ति द्रव्यपुरुषः, स चागमनोआगमज्ञशरीरभव्यशरीरातिरिक्तैकमविकबद्धायुष्काभिमुखनामगोत्रभेदभिन्नो द्रष्टव्यः, अथवा व्यतिरिक्तो द्विधा-मूलगुणनिर्मितः उत्तरगुणनिर्मितश्च, तत्र मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, | उत्तरगुणनिर्मितस्तु तदाकारवन्ति तान्येव, अभिलप्यतेऽनेनेति अभिलापः-शब्दः, तत्राभिलापपुरुषः पुल्लिङ्गाभिधानमात्रं घटः पट इति वा, चिहपुरुषस्त्वपुरुषोऽपिपुरुषचिह्नोपलक्षितो यथा नपुंसकं श्मश्रुचिह्नमित्यादि, तथा त्रिष्वपि लिङ्गेषु स्त्रीपुनपुंसकेषु तृणज्वालोपमवेदानुभवकाले वेदपुरुष इति, तथा धर्मार्जनब्यापारपरः साधुर्धर्मपुरुषः, अर्थार्जनपरस्त्वर्थपु-1 रुषो मम्मणनिधिपालवत्, भोगपुरुषस्तु सम्प्राप्तसमस्तविषयसुखभोगोपभोगसमर्थश्चक्रवर्त्तिवत् , 'भावे य' त्ति भावपुरुपश्च, चशब्दो नामाद्यनुक्तभेदसमुच्चयार्थः, 'भावपुरिसो उ जीवो भावे' त्ति पू:-शरीरं पुरि शेते इति निरुक्तवशाद् भावपुरुषस्तु जीवः, 'भावि' त्ति भावद्वारे निरूप्यमाणे भावद्वारचिन्तायामिति भावार्थः, अथवा 'भावे' त्ति भावनिर्गमप्ररूपणायामधिकृतायां, किम् ?-'पगयं तु भावेणं' ति 'प्रकृतम्' उपयोगस्तु भावेनेत्युपलक्षणाद् भावपुरुषेण-शुद्धेन जीवेन, तीर्थकरेणेत्यर्थः, तुशब्दादिपुरुषेण च गणधरेणेति, एतदुक्तं भवति-अर्थतस्तीर्थकरान्निर्गतं सूत्रतो गणधरेभ्य इति, एवमन्येऽपि यथासम्भवमायोज्या इति गाथार्थः ॥ गतं पुरुषद्वारं, साम्प्रतं कारणद्वारावयवार्थव्याचिख्यासयाऽऽह|णिक्खेवो कारणमी चउब्विहो दुविह होइ दव्वंमि । तद्दब्वमण्णदब्वे अहवावि णिमित्तनेमित्ती ॥७३७॥दार अस्या गमनिका-निक्षेपणं निक्षेपो न्यास इत्यर्थः, करोतीति कारणं, कार्य निर्वतयतीति हृदयं, तस्मिन् कारणे-कारण* पण्ढः क्लीबो नपुंसकमिति हैम्युक्तेः नपुंस्त्वम्. ॥ dain Educatio n al For Personal & Private Use Only wwjainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy