________________
आवश्यक
॥२७३॥
नयरिं पविसंतं दण सीसं फुष्टिहीतित्ति । धिज्जाइओऽवि माणुसाणि पट्ठाविऊण जाव नीति ताव दिट्ठो अणेण पविसंतो वासुदेवो, भयसंभंतस्स य से सीसं तडित्ति सयसिक्करं फुर्हति । एवं भयाध्यवसाने सति भिद्यते आयुरिति । द्वारं । यदुक्तं 'निमित्ते सति भिद्यते आयु रिति तन्निमित्तमनेकप्रकारं प्रतिपादयन्नाह -
दंडकससत्थरज्जू अग्गी उद्गपडणं विसं वाला। सीउन्हें अरइ भयं खुहा पिवासा य वाही य ॥ ७२५ ॥ मुत्तपुरीसनिरोहे जिष्णाजिष्णेय भोयणे बहुसो । घंसणघोलणपीलण आउस्स उवक्कमा एए ॥ ७२६ ॥ दारं ॥
व्याख्या - दण्डकशाशस्त्ररज्जवः अग्निः उदकपतनं विषं व्यालाः शीतोष्णमरतिर्भयं क्षुत्पिपासा च व्याधिश्च मूत्रपुरीपनिरोधः जीर्णाजीर्णे च भोजनं बहुशः घर्षणघोलणपीडनान्यायुषः उपक्रमहेतुत्वादुपक्रमा एते, कारणे कार्योपचारात्, यथा-तन्दुलान् वर्षति पर्जन्यस्तथा आयुर्धृतमिति । तत्र दण्डादयः प्रसिद्धा एव, 'व्याला ः ' सप उच्यन्ते, घर्षणं चन्दनस्येव, घोलनम् अङ्गुष्ठाङ्गुलिगृहीतसञ्चाल्यमानयूकाया इव, पीडनम् इक्ष्वादेरिवेति गाथार्थः ॥ द्वारं ॥ तथाऽऽहारे सत्यसति वा भिद्यते आयुर्यथा - ऐगो मरुगो छणे अट्ठारस वारे भुंजिऊण सूलेण मओ, अण्णो पुण छुहाए मओत्ति । द्वारं । वेदनायां सत्यां भिद्यते आयुर्यथा शिरोनयनवेदनादिभिरने के मृता इति । द्वारं । तथा पराघाते सति भिद्यते आयुर्यथा
१ नगरीं प्रविशन्तं दृष्ट्वा शीर्ष स्फुटिष्यतीति । धिग्जातीयोऽपि मानुषान् प्रस्थाप्य यावद्याति तावद्दृष्टोऽनेन प्रविशन् वासुदेवः, भयसंभ्रान्तस्य च तस्व शीर्ष चटदिति शतशर्करं स्फुटितमिति । २ एको ब्राह्मणः क्षणेऽष्टादश वारान्भुक्त्वा झूलेन मृतः, अन्यः पुनः क्षुधा मृत इति ।
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥२७३॥
www.jainelibrary.org