________________
व्याख्या - निगदसिद्धा, नवरम् 'अनित्थंस्थम्' इतीदंप्रकारमापन्न मित्थम् इत्थं तिष्ठतीति इत्थस्थं न इत्थंस्थं अनित्थंस्थमिति केनचित् प्रकारेण लौकिकेनास्थितमित्यर्थः ॥ ९७४ ॥ आह-ओघत एते किं देशभेदेन स्थिता ? उत नेति ?, नेत्याह- कुत इति ?, अत्रोच्यते, यस्मात् -
जय एगो सिद्धो तत्थ अनंता भवक्खयविमुक्का । अन्नुन्नसमोगाढा पुट्ठा सव्वे अ लोगंते ॥ ९७५ ॥
व्याख्या - यत्रैव देशे चशब्दस्यैवकारार्थत्वात् एकः 'सिद्धः' निर्वृतः, तत्रानन्ताः किं ?, - 'भवक्षयविमुक्ता' इति भवक्षयेण विमुक्ताः भवक्षयविमुक्ताः, अनेन पुनः स्वेच्छया भवावतरणशक्तिमत् सिद्धव्यवच्छेदमाह, अन्योऽन्यसमवगाढाः, | तथाविधाचिन्त्यपरिणामवत्त्वात्, धर्मास्तिकायादिवत्, 'पुट्ठा सबे य लोगंते'त्ति स्पृष्टाः - लग्नाः सर्वे च लोकान्ते, अथवा स्पृष्टः सर्वैश्च लोकान्त इति, लोकाग्रे च प्रतिष्ठिता इति वचनाद्, अयं गाथार्थः ॥ ९७५ ॥ तथा
फुसइ अणंते सिद्धे सव्वपएसेहि निअमसो सिद्धो । तेऽवि असंखिजगुणा देसपएसेहिँ जे पुट्ठा ॥ ९७६ ॥
व्याख्या —– स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैः आत्मसम्बन्धिभिः 'नियमात् ' नियमेन सिद्ध इति, तथा तेऽप्यस पेयगुणा वर्तन्ते देशप्रदेशैर्ये स्पृष्टाः, तेभ्यः सर्वदेशप्रदेशस्पृष्टेभ्यः, कथं ? - सर्वात्मप्रदेशैरनन्ताः स्पृष्टाः, तथैकैकप्रदेशेनाप्यनन्ता एव स वासज्येयप्रदेशात्मकः, ततश्च मूलानन्तकं सकलजीवप्रदेशासत्येयानन्तकैर्गुणितं यथोक्तमेव भवतीति गाथार्थः ॥ ९७६ ॥ स्थापना चेयं- साम्प्रत सिद्धानेव लक्षणतः प्रतिपादयन्नाह -
Jain Education International
For Personal & Private Use Only
jainelibrary.org