________________
आवश्यक हारिभद्रीया
॥४१४॥
संयसहस्सवाराओ वहणं फुटं, तहावि न भज्जइ, भणइ य-जले नहं जले चेव लब्भइ, सयणाइएहिंपि दिज्जमाणं नेच्छइ, पुणो पुणो तं तं भंडं गहाय गच्छर, निच्छएण से देवया पसन्ना, खद्धं खद्धं दबं दिन्नं, भणिओय-अन्नंपि किं ते करेमि ?, तेण भणियं - जो मम नामेण समुदं ओगाहइ सो अवियन्नो एउ, तहत्ति पडिसुर्य, एवेस जत्तासिद्धो । अन्ने भणति - किर निज्जामगस्स वासुलओ समुद्दे पडिओ, सो तस्स कए समुदं उल्लंचिउमाढत्तो, तओ अनिविण्णस्स देवयाए वरो दिन्नोत्ति ॥ कृतं प्रसङ्गेन, साम्प्रतमभिप्रायसिद्धं प्रतिपादयन्नाह -
विउला विमला सुहुमा जस्स मई जो चउव्विहाए वा । वुडीए संपन्नो स बुद्धिसिद्धो इमा सा य ॥ ९३७ ॥
व्याख्या- 'विपुला ' विस्तारवती एकपदेनानेकपदानुसारिणी 'विमला' संशयविपर्ययानध्यवसायमलरहिता 'सूक्ष्मा' अत्यन्तदुःखावबोधसूक्ष्मव्यवहितार्थ परिच्छेदसमर्था 'यस्य मतिः' इति यस्यैवंभूता बुद्धिः स बुद्धिसिद्ध इति, यश्चतुर्विधया वा औत्पत्तिक्यादिभेदभिन्नया बुद्ध्या सम्पन्नः स बुद्धिसिद्धो वर्तते, इयं च सा चतुर्विधा बुद्धिरिति गाथार्थः ॥ ९३७ ॥ उप्पत्तिआ १ वेणइआ २, कंमिया ३ पारिणामिआ ४ । बुद्धी चउव्विहा वुत्ता, पंचमा नोवल भए ॥ ९३८ ॥
१ शतसहस्रवाराः प्रवहणं भग्नं, तथाऽपि न विरमति, भणति च-जले नष्टं जले चैव लभ्यते, स्वजनादिभिरपि दीयमानं नेच्छति, पुनः पुनस्तत्तद्भाण्ड गृहीत्वा गच्छति, निश्चयेन तस्य देवता प्रसन्ना, प्रचुरं प्रचुरं द्रव्यं दत्तं भणितश्च-अन्यदपि किं तव करोमि ?, तेन भणितं यो मम नाम्ना समुद्रमवगाहते सोऽविपन्न आयातु, तथेति प्रतिश्रुतं, एवमेष यात्रासिद्धः । अन्ये भणन्ति किल निर्यामकस्य वासुलः समुद्रे पतितः, स तस्य कृते समुद्रं रिक्तीकर्तुमारब्धः, ततोऽनिर्विण्णाय देवतया वरो दत्त इति ।
Jain Education International
For Personal & Private Use Only
नमस्कार०
वि० १
॥४१४ ॥
www.jainelibrary.org