________________
आवश्यक
हारिभद्री| यवृत्तिः विभागः१
॥३३०॥
REGALORICAL
| व्याख्या-सामायिक एव कृते सति श्रमण इव श्रावको भवति, यस्मात् प्रायोऽशुभयोगरहितत्वात् कर्मवेदक इत्यर्थः, अनेन कारणेन 'बहुशः' अनेकधा सामायिकं कुर्यादिति गाथार्थः॥ किञ्चजीवो पमायबहुलो बहुसोऽवि अ बहुविहेसु अत्थेसुं। एएण कारणेणं बहुसो सामाइयं कुजा ॥८०२॥ | व्याख्या-जीवः प्रमादबहुल: 'बहुशः' अनेकधाऽपि च बहुविधेष्वर्थेषु-शब्दादिषु प्रमादवांश्चैकान्तेनाशुभबन्धक एव, अतोऽनेन कारणेन तत्परिजिहीर्षया बहुशः सामायिकं कुर्यात-मध्यस्थो भूयादिति गाथार्थः ॥ द्वारं ॥ साम्प्रतं सोपेण सामायिकवतो मध्यस्थस्य लक्षणमभिधित्सुराहजो णवि वट्टइ रागे णवि दोसे दोण्ह मज्झयारंमि । सो होइ उ मज्झत्थो सेसा सव्वे अमज्झत्था ॥ ८०३ ॥ | व्याख्या-यो नापि वर्तते रागे नापि द्वेष, किं तर्हि?-'दोण्ह मज्झयारंमि' द्वयोर्मध्य इत्यर्थः, स भवति मध्यस्थः, शेषाः सर्वेऽमध्यस्था इति गाथार्थः॥द्वारं ॥ साम्प्रतं व किं सामायिकमिति निरूपयन् द्वारगाथात्रयमाहखेत्तदिसाकालगइभवियसण्णिऊसासदिठिमाहारे । पजत्तसुत्तजम्म ठितिवेयसण्णाकसायाऊ ॥ ८०४ ॥ णाणे जोगुवओगे सरीरसंठाणसंघयणमाणे । लेसा परिणामे वेयणा समुग्घाय कम्मे य ॥ ८०५॥ |णिव्वेढणमुव्वट्टे आसवकरणे तहा अलंकारे । सयणासणठाणत्थे चंकम्मंतेय किं कहियं ॥८०६॥ दारगाहाओ | व्याख्या-आसां समुदायार्थः क्षेत्रदिक्कालगतिभव्यसंज्ञिउच्छासदृष्ट्याहारकानङ्गीकृत्याऽऽलोचनीयं, किं व सामायिकमिति योगः, तथा पर्याप्तसुप्तजन्मस्थितिवेदसंज्ञाकषायायूंषि चेति, तथा ज्ञानं योगोपयोगी शरीरसंस्थानसंहननमा
॥३३०॥
Jain Education
Canal
For Personal & Private Use Only
Minelibrary.org