SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ श्रीमद्गणधरवरसुधर्मस्वामिविरचितं श्रीमद्भद्रबाहुश्रुतकेवलिततनियुक्तियुतं श्रीमद्भवविरहहरिभद्रसूरिप्रणीतवृत्तिसमवेतं श्रीआवश्यकसूत्रम्. 86 श्रीगणधरेन्द्रो विजयतेतराम्. प्रणिपत्य जिनवरेन्द्र, वीरं श्रुतदेवतां गुरूंन साधून् । आवश्यकस्य विवृति, गुरूपदेशादहं वक्ष्ये ॥१॥ अनेनाभीष्टदेवतास्तवः (अभियुक्तैरिज्यते इत्यभीष्टः ) जिनाः अवधिजिनादयस्तेषु वराः केवलिनस्तेषामिन्द्रः. २ अनेनाभिमतदेवतास्तवः (अभिमन्यते विघ्नविघातकत्वेनेत्यभिमता शासनदेवतादिः)३ श्रुताधिष्ठात्री देवता श्रुतदेवता, श्रुतरूपा देवता श्रुतदेवतेतिविग्रहे तु नाभिमतदेवतात्वं किन्तु अधिकृत तदेवतात्वं स्यात्, अस्या ज्ञानावरणीयक्षयोपशमसाधकत्वेन प्रणिपातो नानुचितः, "सुयदेवये" त्यादिवचनात् । अनेनाविरतत्वेऽपि श्रुतदेवतायाः स्तवनीयता ज्ञापिता, मिथ्यात्वापादनं तु सिद्धान्ताचरणोभयोत्तीर्णमेव ४ अनेनाधिकृतदेवतास्तवः (शास्त्रप्रणेतृत्वेनाधिक्रियते इत्यधिकृता). ५साधुत्वाव्यभिचारादुपाध्यायवाचनाचार्यगणावच्छेदकादयः. Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.oro
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy