________________
आवश्यक
॥२४५॥
तथा वन्दित्वा पर्युपासयामि इति गाथार्थः ॥ ६०६ ॥ इति सञ्जातसङ्कल्पो भगवत्समीपं गत्वा अभिवन्द्य च भगवन्तं | हारिभद्रीतदग्रतस्तस्थौ, अत्रान्तरे
यवृत्तिः आभट्टो य जिणेणं जाइजरामरणविप्पमुक्केणं । णामेण य गोत्तण य सव्वण्णू सव्वदरिसीणं ॥६०७॥ 18| विभागः१ व्याख्या-पूर्ववत् ॥ इत्थमपि संलप्तो हृद्गतं संशयं प्रष्टुं क्षोभादसमर्थो भगवताऽभिहितःतज्जीवतस्सरीरंति संसओ णवि य पुच्छसे किंचि । वेयपयाण य अत्थं ण जाणसी तेसिमो अत्थो॥६०८॥ ___ व्याख्या स जीवः तदेव शरीरमिति, एवं संशयस्तव, नापि च पृच्छसि किञ्चित् विदिताशेषतत्त्वम्, अयं स संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते, वेदपदानां चार्थ न जानासि, तेषां तव संशयनिबन्धनानामयमों वक्ष्यमाणलक्षण इति गाथाक्षरार्थः ॥ तानि चामूनि परस्परविरुद्धानि वेदपदानि-विज्ञानघन एव एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्यसञ्ज्ञाऽस्ति' इत्यादीनि,तथा 'सत्येन लभ्यः तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो,यं पश्यन्ति धीरा यतयः संयतात्मानः' इत्यादीनि चेति, एतेषां चायमर्थः ते बुद्धौ प्रतिभासते-'विज्ञानघने'त्यादीनां । पूर्ववत् व्याख्या, नवरं न प्रेत्य सञ्ज्ञा अस्ति-न देहात्मनोः भेदसञ्ज्ञाऽस्ति, भूतसमुदायमात्रधर्मत्वात् चैतन्यस्य, ततश्चामूनि किल शरीरातिरिक्तात्मोच्छेदपराणि वर्तन्ते, 'सत्येन लभ्य' इत्यादीनि तु देहातिरिक्तात्मप्रतिपादकानि इति,
॥२४५॥ अतः संशयः, युक्ता च भूतसमुदायमात्रधर्मता चेतनायाः, ते मतिः, तत्र एवोपलब्धेगौरतादिवदिति, तथा प्रत्यक्षादि
१ बहुलमेतन्निदर्शनमित्युक्तेश्चौरादिकोऽयं ज्ञेयो, यद्वा पर्युपादासेर्धजन्तात्कृगो नाम्न इति णिचि रूपमेतत्, पर्युपासे इति क्वचिदस्त्यपि.
dal Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org