SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ न कश्चिद्भेदः, कम्मैव सज्ञान्तरवाच्यं तत्, अथ अमूर्त्तो, न तर्हि नियामको देहकारणं वा, अमूर्त्तत्वात्, गगनवत्, तथा हि-नामूर्त्तान्मूर्त्तप्रसूतिरिति, न चाकारणता स्वभावः, कारणाभावस्याविशिष्टत्वात् युगपदशेषदेहसंभवप्राप्तेः, अकारणताविशेषाभ्युपगमे च तद्द्भावप्रसङ्गः, न च वस्तुधर्मः स्वभावः, आत्माख्यवस्तुधर्मत्वेन अमूर्त्तत्वात्, गगनवत्, तस्य देहादिकारणत्वानुपपत्तेः, मूर्त्तवस्तुधर्मत्वे पुनरसौ न पुगलपर्यायमतिवर्त्तते, कर्मापि च पुद्गलपर्यायानन्यरूपमेव इत्यवि - प्रतिपत्तिरिति, तस्मात् यच्छरीरपूर्वक बालशरीरं तत्कार्मणमिति, आगमगम्यं च एतत्, 'पुण्यः पुण्येन पापः पापेन कर्मणा' इत्यादिश्रुतिवचनप्रामाण्यात्, तथा अमूर्त्तस्यापि आत्मनो विशिष्टपरिणामवतः मूर्त्तकर्मपुद्गलसम्बन्धोऽविरुद्ध एव, आकाशस्येव घटादिसंयोग इति, तथा अमूर्त्तस्यापि मूर्त्तकृतावुपघातानुग्रहावविरुद्धौ, विज्ञानस्य मदिरापानौषधादिभिः उपघातानुग्रहदर्शनात् इत्यलं प्रसङ्गेनेति । — छिमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहि सह खंडियसएहिं ॥ ६०५ ॥ व्याख्या - इत्थं छिन्ने संशये जिनेन जरामरणविप्रमुक्तेन स श्रमणः प्रत्रजितः पञ्चभिः सह खण्डिकशतैः, भावार्थः सुगम इति गाथार्थः ॥ ६०५ ॥ द्वितीयो गणधरः समाप्तः ॥ ते पव्वइए सोउं तइओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥ ६०६ ॥ व्याख्या- 'तौ' इन्द्रभूतिअग्निभूती प्रत्रजितौ श्रुत्वा तृतीयो वायुभूतिनामा आगच्छति जिनसकाशं, उभयनिष्क्रमणाकर्णनादपेताभिमानः सञ्जातसर्वज्ञप्रत्ययः खलु अत एवाहं व्रजामि, णमिति वाक्यालङ्कारे, वन्दे भगवन्तं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy