SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ आवश्यक॥ १६९॥ | स्ववंशानुरागाद्यथा परिखां कृत्वा गङ्गाऽवतारिता तथा प्रन्थान्तरतो विज्ञेयमिति । 'या चकास्तेनाहिताग्नयः' इत्यस्य व्याख्यादेवैर्भगवत्सकथादौ गृहीते सति श्रावका देवान् अतिशयभक्त्या याचितवन्तः, देवा अपि तेषां प्रचुरत्वात् महता यलेन याचनाभिद्रुता आहुः - अहो याचका अहो याचका इति, तत एव हि याचका रूढाः, ततोऽग्निं गृहीत्वा स्वगृहेषु स्थापितवन्तः, तेन कारणेन आहिताग्नय इति तत एव च प्रसिद्धाः, तेषां चाग्नीनां परस्परतः कुण्डसंक्रान्तावयं विधिःभगवतः संबन्धिभूतः सर्वकुण्डेषु संचरति, इक्ष्वाकुकुण्डाग्निस्तु शेषकुण्डाग्निषु संचरति, न भगवत्कुण्डाग्नौ इति शेषानगारकुण्डाग्निस्तु नान्यत्र संक्रमत इति गाथार्थः ॥ ४३५ ॥ साम्प्रतमप्रतिहतद्वारगाथाया द्वारद्वयव्याचिख्यासया मूलभाष्यकार आह— धूभसय भाउगाणं चउवीसं चेव जिणहरे कासी । सव्वजिणाणं पडिमा वण्णपमाणेहिं निअएहिं ॥ ४५ ॥ ( मू० भा० ) गमनिका -- स्तूपशतं भ्रातॄणां भरतः कारितवान् इति, तथा चतुर्विंशतिं चैव जिनगृहे - जिनायतने (नानि ) 'कासीति' कृतवान् का इत्याह-सर्वजिनानां प्रतिमा वर्णप्रमाणैः 'निजैः' आत्मीयैरिति गाथार्थः ॥ साम्प्रतं भरतवक्तव्यतानिबद्धां संग्रहगाथां प्रतिपादयन्नाह - आयंसघरपवेसो भरहे पडणं च अंगुलीअस्स । सेसाणं उम्मुअणं संवेगो नाण दिक्खा य ॥ ४३६ ॥ अस्या भावार्थः कथानकादवसेयः, तच्चेदम् – भगवतो निवाणं गयस्स आययणं काराराविय भरहो अउज्झमागओ, कालेण १ भगवतो निर्वाणं गतस्य आयतनं कारयित्वा भरतोऽयोध्यामागतः कालेन. Jain Educationnexational For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥१६९॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy