SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥१६८॥ अहयं च दसाराणं पिभा य मे चक्कवट्टिवंसस्स । अज्जो तित्थयराणं, अहो कुलं उत्तमं मज्झ ॥ ४३२ ॥ गमनिका – अहमेव, चशब्दस्यैवकारार्थत्वात्, किम् ?, दशाराणां प्रथमो भविष्यामीति वाक्यशेषः, पिता च 'मे' मम चक्रवर्तिवंशस्य प्रथम इति क्रियाऽध्याहारः । तथा 'आर्यक : ' पितामहः स तीर्थकराणां प्रथमः, यत एवं अतः 'अहो' विस्मये कुलमुत्तमं ममेति गाथार्थः ॥ ४३२ ॥ पृच्छाद्वारं गतम्, इदानीं निर्वाणद्वारावयवार्थाभिधित्सयाऽऽह— अह भगवं भवमहणो पुत्र्वाणमणूणगं सयसहस्सं । अणुपुव्वि विहरिऊणं पत्तो अट्ठावयं सेलं ॥ ४३३ ॥ गमनिका - अथ भगवान् भवमथनः पूर्वाणामन्यूनं शतसहस्रं आनुपूर्व्या विहृत्य प्राप्तोऽष्टापदं शैलं, भावार्थः सुगम एवेति गाथार्थः ॥ ४३३ ॥ अट्ठावयंमि सेले चउदसभत्तेण सो महरिसीणं । दसहि सहस्सेहि समं निव्वाणमणुत्तरं पत्तो ॥ ४३४ ॥ गमनिका - अष्टापदे शैले चतुर्दशभक्तेन स महर्षीणां दशभिः सहस्रैः समं निर्वाणमनुत्तरं प्राप्तः । अस्या अपि भावार्थः सुगम एव, नवरं चतुर्दशभक्तं - षड्रात्रोपवासः । भगवन्तं चाष्टापदप्राप्तं अपवर्गजिगमिषु श्रुत्वा भरतो दुःखसंतप्तमानसः पदयामेव अष्टापदं ययौ, देवा अपि भगवन्तं मोक्षजिगमिषुं ज्ञात्वा अष्टापदं शैलं दिव्यविमानारूढाः खलु आगतवन्तः, उक्तं च 'भगवति मोक्षगमनायोद्यते - जाव य देवावासो जाव य अट्ठावओ नगवरिंदो । देवेहि य देवीहि य अविरहियं * जारिसयेत्यत आरभ्य अन्तरा विहायैकादश सर्वा अपि भाष्यगाथा इति कस्यचिदभिप्रायः. Jain Education International For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥१६८॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy