________________
AAKRA
अह भणइ नरवरिंदो ताय ! इमीसित्तिआइ परिसाए।
अण्णोऽवि कोऽवि होही भरहे वासंमि तित्थयरो॥४४॥ (मू० भा०) गमनिका-अत्रान्तरे अथ भणति नरवरेन्द्रः-तात ! अस्या एतावत्याः परिषदः अन्योऽपि कश्चिद् भविष्यति तीर्थकरोऽस्मिन् भारते वर्षे ?, भावार्थस्तु सुगम एवेति गाथार्थः॥ तत्थ मरीईनामा आइपरिव्वायगो उसभनत्ता । सज्झायझाणजुत्तो एगते झायह महप्पा ॥ ४२२॥ गमनिका-'तत्र' भगवतः प्रत्यासन्ने भूभागे मरीचिनामा आदौ परिव्राजक आदिपरिव्राजकः प्रवर्तकत्वात्, ऋषभ नप्ता-पौत्रक इत्यर्थः । स्वाध्याय एव ध्यानं स्वाध्यायध्यानं तेन युक्तः, एकान्ते ध्यायति महात्मेति गाथार्थः ॥ ४२२ ॥
तं दाएइ जिणिंदो एव नरिंदेण पुच्छिओ संतो। धम्मवरचक्कवही अपच्छिमो वीरनामुत्ति ॥ ४२३ ॥ गमनिका-भरतपृष्टो भगवान् 'त' मरीचिं दर्शयति जिनेन्द्रः, एवं नरेन्द्रेण पृष्टः सन् धर्मवरचक्रवती अपश्चिमो वीरनामा भविष्यति इति गाथार्थः॥ ४२३ ॥
आइगरु दसाराणं तिविठूनामेण पोअणाहिवई । पिअमित्तचक्कवट्टी मूआइ विदेहवासंमि ॥ ४२४ ॥ गमनिका-आदिकरो दशाराणां त्रिपृष्ठनामा पोतना नाम नगरी तस्या अधिपतिः भविष्यतीति क्रिया । तथा प्रियमित्रनामा चक्रवर्ती मूकायां नगर्या 'विदेहवासंमित्ति महाविदेहे भविष्यतीति गाथार्थः ॥ ४२४॥
तं वयणं सोऊणं राया अंचियतणूरुहसरीरो । अभिवंदिऊण पिअरं मरीइमभिवंदओ जाइ ॥ ४२५ ॥
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org