________________
RRRRRRrer
| गमनिका-'आभोगयित्वा' उपयोगपूर्वकेन अवधिना विज्ञाय 'शको' देवराज उपागतः, 'तस्य भगवतः करोति 'अभिषेक' राज्याभिषेकमिति, तथा मुकुटाद्यलङ्कारं च, आदिशब्दात् कटककुण्डलकेयूरादिपरिग्रहः, चशब्दस्य व्यवहितः |संबन्धः, नरेन्द्रयोग्यं च 'से' तस्य करोति, अत्रापि वर्तमानकालनिर्देशप्रयोजनं पूर्ववदवसेयं, पाठान्तरं वा 'आभोएउं
सक्को आगंतुं तस्स कासि अभिसेयं । मउडाइअलंकारं नरेंदजोग्गं च से कासी ॥१॥" भावार्थः पूर्ववदेवेति गाथार्थः | ॥ १९९ ॥ अत्रान्तरे ते मिथुनकनरास्तस्मात् पद्मसरसः खलु नलिनीपत्रैरुदकमादाय भगवत्समीपमागत्य तं चालङ्कृतविभूषितं दृष्ट्वा विस्मयोत्फुल्लनयनाः किंकर्तव्यताव्याकुलीकृतचेतसः कियन्तमपि कालं स्थित्वा भगवत्पादयोः तदुदकं निक्षिप्तवन्त इति, तानेवंविधक्रियोपेतान् दृष्ट्वा देवराट् अचिन्तयत्-अहो खलु विनीता एते पुरुषा इति वैश्रवणं यक्षरा| जमाज्ञापितवान्-इह द्वादशयोजनदीर्घा नवयोजनविष्कम्भां विनीतनगरी निष्पादयेति, स चाज्ञासमनन्तरमेव दिव्यभवनप्राकारमालोपशोभितां नगरी चक्रे । अमुमेवार्थमुपसंहरन्नाह-अत्रान्तरे [भिसिणीपत्तेहिअरे उदयं वित्तुं छुहंति पाएसु । साहु विणीआ पुरिसा विणीअनयरी अह निविट्ठा ॥२०॥ __ गमनिका-बिसिनीपौरितरे उदकं गृहीत्वा 'छुभंतित्ति' प्रक्षिपन्ति, वर्तमाननिर्देशः प्राग्वत्, पादयोः, देवराजोड |भिहितवान-साधु विनीताः पुरुषा विनीतनगरी अथ निविष्टेति गाथार्थः ॥ २०॥ गतमभिषेकद्वारम् , इदानी संग्रहद्वाराभिधित्सयाऽऽह
* विनीता.. + भिसिनी.. देवराडभि०.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org