SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आवश्यक॥११९॥ आवश्यकम् - अवश्यकर्त्तव्यं संयमव्यापार निष्पन्नं तस्मिंश्च निरतिचारः सन्निति १२ । शीलानि च व्रतानि च शीलव्रतानि शीलानि - उत्तरगुणाः व्रतानि - मूलगुणाः तेषु च अनतिचार इति १३ । क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेगभावनाध्यानासेवनतश्च बध्यते १४ । तथा तपस्त्यागयोर्बध्यते, यो हि यथाशक्त्या तपः आसेवते त्यागं च यतिजने विधिना करोति १६ । व्यावृतभावो वैयावृत्त्यं तच्च दशधा, तस्मिन्सति बध्यते १७ । समाधिः - गुर्वादीनां कार्यकरणेनं स्वस्थतापादनं समाधौ च सति बध्यते १८ । तथा अपूर्वज्ञानग्रहणे सति श्रुतभक्तिः श्रुतबहुमानः, स च विवक्षित कर्मबन्धकारणमिति १९ । तथा प्रवन्ननप्रभावनता च सा च यथाशक्त्या मार्गदेशनेति २० । एवमेभिः कारणैः अनन्तरोकैः तीर्थकरत्वं लभते जीव इति गाथायार्थः ॥ १७९-१८०-१८१ ॥ पुरिमेण पच्छिमेण य एए सब्बेऽवि फासिया ठाणा । मज्झिमएहिं जिणेहिं एक्कं दो तिण्णि सव्वे वा ॥ १८२ ॥ गमनिका - पुरिमेण पश्चिमेन च एतानि - अनन्तरोक्तानि सर्वाणि स्पृष्टानि स्थानानि, मध्यमैजिनैः एकं द्वे त्रीणि सर्वाणि चेति गाथार्थः ॥ १८२ ॥ आह - तं च कहं बेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तइयभवोसकइत्ताणं ॥ १८३॥ गमनिका - तच्च तीर्थकरनामगोत्रं कर्म कथं वेद्यत इति, अग्लान्या धर्मदेशनादिभिः, बध्यते तत्तु भगवतो यो * यथाशक्ति (स्यात्) + ०करणद्वारेण. Jain Education International For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥११९॥ jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy