SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ SAMOSALAMICROSS जं चेव आउयं कुलगराण तं चेव होइ तासिंपि । जं पढमगस्स आउं तावइयं चेव हथिस्स ॥१२॥ । गमनिका-यदेव आयुष्कं कुलकराणां तदेव भवति तासामपि-कुलकराङ्गनानां, संख्यासाम्याच्च तदेवेत्यभिधीयते, तथा यत्तु प्रथमस्यायुः कुलकरस्य, तावदेव भवति हस्तिनः, एवं शेषकुलकरहस्तिनामपि कुलकरतुल्यं द्रष्टव्यमिति गाथार्थः ॥ १६२ ॥ इदानीं भागद्वारं-कः कस्य सवोयुष्कात् कुलकरभाग इति जं जस्स आउयं खलु तं दसभागे समं विभईऊणं । मज्झिल्लहतिभागे कुलगरकालं वियाणाहि ॥१६३॥ ___ व्याख्या-यद्यस्यायुष्कं खलु तद् दशभागान् समं विभज्य मध्यमाष्टत्रिभागे कुलकरकालं विजानीहीति गाथार्थः ॥ १६३ ॥ अमुमेवार्थ प्रचिकटयिषुराहपढमो य कुमारत्ते भागो चरमो य वुडभावंमि । ते पयणुपिज्जदोसा सव्वे देवेसु उववण्णा ॥१६४॥ गमनिका-तेषां दशानां भागानां प्रथमः कुमारत्वे गृह्यते, भागः चरमश्च वृद्धभाग इति, शेषा मध्यमा अष्टौ भागाः कुलकरभागा इति, अत एवोक्तं 'मध्यमाष्टत्रिभागे' इति, मध्यमाश्च ते अष्टौ च मध्यमाष्टौ त एव च त्रिभागस्तस्मिन् कुलकरकालं विजानीहि, गतं भागद्वार, उपपातद्वारमुच्यते-ते प्रतनुप्रेमद्वेषाः, प्रेम रागे वर्तते, द्वेषस्तु प्रसिद्ध एव, सर्वे विमलवाहनादयो देवेषु उपपन्ना इति गाथार्थः॥१६४ ॥ न ज्ञायते केषु देवेषु उपपन्ना इति, अत आह दो चेव सुवण्णेसुं उदाहिकुमारेसु हुंति दो चेव । दो दीवकुमारेसुं एगो नागेसु उववण्णो ॥१६५॥ * भागो. + •इएणं. भाव. उदय०. . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy