________________
आवश्यक॥ ८४ ॥
ध्यते एतदुक्तं भवति — नरकगतिनाम नरकानुपूर्वीनाम च, आनुपूर्वी - वृषभनासिकान्यस्तरज्जू संस्थानीया, यया कर्मपुद्गलसंहत्या विशिष्टं स्थानं प्राप्यतेऽसौ यया वोर्ध्वोत्तमाङ्गाधश्चरणादिरूपो नियमतः शरीरविशेषो भवति साऽऽनुपूर्वीति, तथा तिर्यग्गतिनाम तिर्यगानुपूर्वीनाम च, एवं गत्यानुपूर्वीनामनी द्वे द्वे, तथा 'जातिनाम' एकेन्द्रियादिजातिनाम यावच्चतुरिन्द्रियाः, एतदुक्तं भवति - एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम एवं शेषयोजनाऽपि कार्येति । आह-एकेन्द्रियाद्यानुपूर्वीनाम कस्मान्नोच्यते, आचार्य आह-तस्य तिर्यगानुपूर्वीनामक्षपणप्रतिपादनेनोकार्थत्वात्, 'चः' समुच्चये, तथा 'आतपं' इति आतपनाम, यदुदयात् आतपवान् भवति, 'उद्योतं' इति उद्योतनाम, यदुदयादुद्योतवान् भवति, स्थावराः - पृथि व्यादयः तन्नाम च पूर्ववत्, 'सूक्ष्मं' इति सूक्ष्मनाम च, 'साधारणं' इति साधारणनाम, अनन्तवनस्पतिनामेत्यर्थः, 'अपर्याप्तं ' इति अपर्याप्तकनाम, तथा निद्रानिद्रा च इत्यादि प्रकटार्थत्वान्न वित्रियते, नवरं स्त्यांना चैतन्यऋद्धिर्यस्यां सा स्त्यानर्धिः, स्त्यानर्व्युत्तरकालमवशेषं यदष्टानां कषायाणां तत् क्षपयति, सर्वमिदमन्तर्मुहूर्त्तमात्रेणेति, ततो नपुंसकवेदं, ततः स्त्रीवेदं ततो हास्यादिषङ्कं ततः पुरुषवेदं च खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयखण्डं तु संज्वलन क्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्ययं क्रमः, नपुंसकादिप्रतिपत्तरि तु उपशमश्रेणिन्यायो वक्तव्यः, ततः क्रोधादींश्च संज्वलनान् प्रत्येकमन्तर्मुहूर्त्तमात्रकालेनोक्तेनैव न्यायेन क्षपयति, श्रेणिपरिसमाप्तिकालोऽप्यन्तर्मुहूर्त्तमेव, अन्तर्मुहूर्त्तानामसंख्येयत्वात्, लोभचरमखण्डं तु संख्येयानि खण्डानि कृत्वा पृथक् पृथक् कालभेदेन क्षपयति, चरमखण्डं पुनरसंख्येयानि खण्डानि करोति, तान्यपि समये समये एकैकं क्षपयति, इह च क्षीणदर्शनसप्तको निवृत्तिवादर उच्यते, तत ऊर्ध्वमनिवृत्तिबादरो यावत्
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥ ८४ ॥
www.jainelibrary.org