________________
आवश्यक
॥८३ ॥
रणान्तरः पुनः स्वरूपमुपदर्शयति, एवमसावप्युदितकषायानलो जघन्यतस्तद्भव एव मुक्तिं लभते, उत्कृष्टतस्तु देशोनमर्ध- हारिभद्रीपुद्गलपरावर्त्तमपि संसारमनुबध्नातीति ॥११८ ॥ यतश्चैवं तीर्थकरोपदेशः अत औपदेशिकं गाथाद्वयमाह नियुक्तिकारः-- यवृत्तिः
जइ उवसंतकसाओ लहइ अणंतं पुणोऽवि पडिवायं।ण हु भे वीससियव्वं थेवे य कसायसेसंमि॥११९॥ विभागः१ अणथोवं वणथोवं अग्गीथोवं कसायथोवं च । णहु मे वीससियव्वं थेपि हु तं बहं होइ ॥ १२०॥" प्रथमगाथा प्रकटार्थत्वान्न वितन्यते, द्वितीयगाथाव्याख्या-ऋणस्य स्तोकं ऋणस्तोकं तथाच स्वल्पादपि ऋणात् दासत्वं प्राप्ता वणिग्दुहितेति, उक्तं च भाष्यकारेण-"दासत्तं देइ अणं अचिरा मरणं वणो विसप्पंतो । सबस्स दाहमग्गी देंति कसाया भवमणंतं ॥१॥” अपिचशब्दनिपातसाफल्यं पूर्वोक्तानुसारेण स्वबुद्ध्या वक्तव्यमिति गाथार्थः ॥१२०॥ इत्थमौ-11 पशमिकं चारित्रमुक्तं, इदानीं क्षायिकमुच्यते, अथवा सूक्ष्मसंपराययथाख्यातचारित्रद्वयं उपशमश्रेण्यङ्गीकरणेनोक्तं, इदानीं क्षपक श्रेण्यङ्गीकरणतःप्रतिपादयन्नाह
अण मिच्छ मीस सम्मं अट्ठ नपुंसित्थीवेय छकं च। पुंवेयं च खवेइ कोहाइए य संजलणे ॥१२१॥ व्याख्या-इह क्षपकश्रेणिप्रतिपत्ताऽसंयतादीनामन्यतमोऽत्यन्तविशुद्धपरिणामो भवति, स च उत्तमसंहननः, तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यते, अपरे तु धर्मध्यानोपगत एवेति, प्रतिपत्तिक्रमश्चायम्-प्रथममन्तर्मुहूर्तेन
॥८३॥ अनन्तानुबन्धिनः क्रोधादीन् युगपत्क्षपयति, तदनन्तभागं तु मिथ्यात्वे प्रक्षिप्य ततो मिथ्यात्वं सहैव तदंशेन युगपत्
१ दासत्वं ददाति ऋणं अचिरान्मरणं व्रणो विसर्पन् । सर्वस्य दाहम निर्ददति कषाया भवमनन्तम् ॥ १ ॥ (विशेषावश्यकगाथा १३.१).
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org